श्रीगुरुभ्यो नमः
चेत्योपरागरूपा मे साक्षिताऽपि न तात्त्विकी ।
उपलक्षणमेवेयं निस्तरङ्गचिदम्बुधेः ॥
लक्ष्मीधरनामकवेः ’अद्वैतमकरन्द’ नामग्रन्थे श्लोकोऽयं वर्तते, अतिगहनार्थबोधक: । तत्प्रकाशकार्था व्याख्या आरभ्यते –
अत्र वेदान्तसाधकोऽनुसन्धानावसरे चिन्तयति – या मम साक्षिता साक्ष्यं प्रति, साऽपि न पारमार्थिकी, यतो साक्ष्यस्य व्यावहारिकत्वेनैव अभ्युपगमात् । तर्हि किमर्था इयं साक्षित्वकल्पना इति चेत्, शृणु तत्र प्रयोजनम् – अशब्दमस्पर्शमित्यादिश्रुत्या, ’न सत्तन्नासदुच्यते’ इत्यादिस्मृत्या च सर्वलिङ्गवर्जितत्वेन अत्यन्तदुरवगाह्यं प्रत्यगभिन्नब्रह्मस्वरूपम् ।तत्प्रतिपत्तिसौकर्यार्थं शास्त्रं तद्ग्रहणलिङ्गत्वेन साक्षितां कल्पयति । अत्रेयं प्रक्रिया – बाह्यपदार्थाः सर्वे इन्द्रियग्राह्यतया तथा अन्तःकरणधर्माः सर्वे तद्भिन्नचैतन्येन ग्राह्यत्वेन तद्ग्राहकचैतन्यं साक्षी इत्युच्यते । इदमेव परिष्कृत्य ’अकर्तृत्वे सति बोधृत्वं साक्षित्वम्’ इति कथ्यते । एवं च समस्तग्राह्यकोटिः साक्ष्यं तथा तद्ग्राहकवस्तु साक्षी इति व्यवस्था । यदा साधकः अहंकारादारभ्य स्थूलदेहपर्यन्तं सर्वं साक्ष्यकोटौ समर्प्य तत्सर्वग्राहकतया स्वं चैतन्यं अवगन्तुं अभ्यसति, तदभ्यासपाटववशात् साक्ष्यनिरपेक्षतयाऽपि स्वात्मानं चिन्तयितुं शक्नोति तदा परमार्थसत्यं प्रत्यगभिन्नं ब्रह्म साक्षात्कर्तुं पारयति । इदमेव साक्षित्वकल्पनायाः परमप्रयोजनम् ।
अत्र श्लोकगतशब्दा विव्रियन्ते –
चेत्योपरागरूपा इति शब्दोऽयं साक्षिता इत्यस्य विशेषणम् । चेत्यं प्रकाश्यं तेन सह उपरागः सम्बन्धः तदेव रूपं प्रकारः अस्या इति चेत्योपरागरूपा साक्षिता । प्रकाशकस्थानीया साक्षी प्रकाश्यं साक्ष्यं चेत्यं प्रति प्रकाशक-प्रकाश्यरूपसम्बन्धं प्राप्नुवन्निव वर्तते । तथा च ’अहं साक्षी विषयी, चेत्यं साक्ष्यं मम विषय”इति आवयोस्सम्बन्धः । एवं मे मम साक्षिता सिद्ध्यति ।
न तात्त्विकी – इयं साक्षिता अपि न पारमार्थिकी, परमार्थदृष्ट्या न वस्तुभूता भवितुमर्हति । तर्हि कथमस्या विनियोगः?
उपलक्षणमेवेयं – अस्याः साक्षितायाः उपलक्षणत्वमेव इष्यते । तथा हि – यथा देवदत्तगृहप्रतिपत्तये तदुपरिस्थितकाकं निर्दिश्य ’इदमेव तद्गृहम्’ इति गृहज्ञापनं सम्भवति तथा चेत्यसाक्षिणं निर्दिश्य तत्प्रतिपत्त्यनन्तरं ’इदमेव तव प्रत्यगात्मस्वरूपम्’ इति ज्ञापनं सम्भवति । अत्र यथा काकं आलक्ष्य तदुपलक्षित-तद्रहित-तद्भिन्नगृहमेव प्राप्तिस्थानत्वेन गृह्णाति पृच्छकः, तथा साक्षितां प्रतिपद्य तत्र सुष्ठु अभ्यस्य तदुपलक्षित-तद्रहित-तद्भिन्नत्वेन स्वस्वरूपं परमार्थसत्यं अवगच्छति साधकः । तत्र वार्तिकश्लोकः पठ्यते –
यावद्यावन्निरस्यायं देहादीन् प्रत्यगञ्चति ।
तावत्तावत् तदर्थोऽपि त्वमर्थं प्रविविक्षति ॥ इति । स्पष्टोऽर्थः ।
निस्तरङ्गचिदम्बुधेः – चिदेवाम्बुधिः सागरः, चित्समुद्रः । किम्भूतः ? निस्तरङ्गः, निश्चलः अन्तःकरणादिधर्मवर्जितः इत्यर्थः । आत्मसत्यानुबोधेन यदा अमनीभावमाप्नोति साधकः तदा साक्षित्ववर्जिततया स्वात्मतत्त्वं अखण्डनिस्तरङ्गचिदम्बुधिं अनुभवति । ईदृशस्वाराज्यसिद्धेः कारणं पूर्वकृतसाक्षितारूपाभ्यास एवेत्यत्र नास्ति संशयः ।
व्याख्यासमापनावसरे पुनः श्लोकपठनमुचितमितिकृत्य तदेव स्मर्यते –
चेत्योपरागरूपा मे साक्षिताऽपि न तात्त्विकी ।
उपलक्षणमेवेयं निस्तरङ्गचिदम्बुधेः ॥
श्रीसद्गुरुचरणारविन्दार्पणमस्तु
Here is another Blogpost in Sanskrit: On the Gita-teaching of MithyAtva:
https://adbhutam.wordpress.com/2010/01/25/a-gita-teaching-of-mithyaatva-a-blogpost-in-sanskrit/
(कृपया अस्य लेखनस्य सविस्तरं निर्दाक्षिण्यं विमर्शां कुर्वन्तु)
[…] https://adbhutam.wordpress.com/2009/11/10/advaita-makaranda-a-blog-in-sanskrit/ […]
By: A GITA TEACHING OF MITHYAATVA – A BLOGPOST IN SANSKRIT « Adbhutam's Blog on January 25, 2010
at 11:01 am
Awesome…
By: Sandeep on February 5, 2010
at 2:58 pm
Thank you Sandeep. I am glad that you liked it.
By: adbhutam on February 5, 2010
at 6:00 pm
Though I read the entire Sanskrit here, and understood about 1%, I wish there was a way to map it to the required vocabulary and the grammar (which vibhakthi being used, the root word for nouns, and for verb, which class, which ending, and others). Of course, learning Sanskrit, but sometimes become impatient at trying to read such great posts, and wish someone could explain it from grammar perspective.
Thank you for the wisdom. I think I understand somewhat, though not very much.
Sanju.
By: Sanju on June 12, 2012
at 5:00 pm
Thank you Sanju for the kind words. Of course learning Sanskrit is a continuous effort by reading, patiently analyzing, taking up translation exercises, etc. I find this method very useful.
By: adbhutam on June 13, 2012
at 1:26 am
Beautifully written. Thank you for the beautiful (and systematic) unfolding of ideas like peeling of the layers of a rose bud so to say. It is like a lamp to one walking on a dark road. Would not have been as well expressed in any other language. Thank you.
Criticism can be made if there is any flaw, but this post is just right for a wave wanting to know how to become the ocean.
By: waveisocean on May 25, 2014
at 3:59 am