Posted by: adbhutam | January 25, 2010

A GITA TEACHING OF MITHYAATVA – A BLOGPOST IN SANSKRIT

श्रीगुरुभ्यो नमः

श्रीमद्भगवद्गीतागत-प्रपञ्चमिथ्यात्वलक्षणप्रदर्शनम्

अत्र द्वितीयाध्याये षोडशतमश्लोक  एवं पठ्यते –

नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोः तत्त्वदर्शिभि: ॥ इति ।

श्लोकेऽस्मिन् ‘नाभावो विद्यते सतः’ इत्यंशे ब्रह्मणस्सत्यत्वमभिहितं भगवता, तैत्तिरीयश्रुत्युक्त ‘सत्यं ज्ञानं अनन्तं ब्रह्म’ इति ब्रह्मस्वरूपलक्षणानुरोधेन ।  ‘त्रिकालाबाध्यत्वं सत्यत्वलक्षणं’ इति परिष्कृतलक्षणं भगवत्पादैः तैत्तिरीयभाष्ये अति गहनार्थबोधकतया एवमुक्तम् – यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत् सत्यम् ।  यद्रूपेण यन्निश्चितं तत् तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम्, ’वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’, एवं सदेव सत्यम् इत्यवधारणात् ।इति। गीतागतब्रह्मलक्षणस्य व्याख्यानतया विराजते भाष्यवाक्यमिदं भगवत्पादीयम् ।

‘ब्रह्म सत्यम्’ इत्यंशस्य प्रतिपादनं पूर्वं दृष्टम्, इदानीं ‘जगन्मिथ्या’ इत्यस्य निरूपणं ‘नासतो विद्यते भावः’ इत्यनेन क्रियते ।  ननु असतः कथं मिथ्याशब्दार्थकत्वं, सदसद्विलक्षणस्यैव तथात्वात् । ननु च असच्छब्दस्य अत्यन्तासद्द्योतकत्वमेव लोके दृष्टं, शशविषाणगगनकुसुमप्रभृतिषु,  तेन च कथं मिथ्यार्थकत्वसिद्धिः? इति चेत्, शृणु तत्र समाधानम् ।

श्लोकस्य उत्तरार्धे तत्त्वदर्शिनां ज्ञानं पूर्वार्धोक्तसदसतोरुभयोरपि निर्णयरूपमुक्तम् । यदि ‘असत्’ इत्यस्य शशविषाणादिकं गृह्येत, तत् पामरैरपि असत्त्वेन निष्प्रत्यूहं गृह्यमाणत्वात्, तत्त्वदर्शिविषयकत्वं तस्य अति पेशलं स्यात् । प्रत्युत पण्डितपामरसामान्येन सर्वैरपि स्वाभाविक्या अविद्यया संसारित्वं प्रपञ्चं च पारमार्थिकतया गृह्यमाणे सति, तन्निवारकतया शास्त्रप्रवृत्तिरिति सिद्धे, भगवता ‘ब्रह्म सत्यं, जगन्मिथ्या’ इत्युपदेशः सार्थकत्वं सामञ्जस्यं च  प्राप्नुयात् ।

‘यत्र हि द्वैतमिव भवति’ (बृहदारण्यक २.४.१४, ४.५.१५), ‘नेह नानास्ति किञ्चन’ (बृहदारण्यक ४.४.१९), ‘मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति’ (कठ २.१.११) इत्यादिबह्व्यः श्रुतयः इवशब्दप्रयोगेण द्वैतस्य मिथ्यात्वं प्रतिपादयन्ति, आमनन्ति, बोधयन्ति च । ‘भूतप्रकृतिमोक्षं च’ (१३.३४) इति भगवतापि सकारणस्य जगतः मिथ्यात्वं ज्ञापितम् । त्रयोदशाध्यायगतश्लोकेऽस्मिन् तत्त्वदर्शिनो लक्षणमेवमुक्तम् – क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३.३४ ॥ इति ।

(अ) ‘नासतो विद्यते’ इतयत्र भाष्यम् – नासतो=अविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनम् अस्तिता ।  (अत्र शीतोष्णादेः इति प्रकरणात् – २.१४ गृहीतम्, सकारणस्य इति शीतोष्णादेः कारणं यत्किञ्चिदपि वस्तु अग्निसूर्यादिहिमवातादिकं गृह्यते ।) न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तु सद्भवति ।  विकारो हि सः, विकारश्च व्यभिचरति । यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेण अनुपलब्धेरसत्, तथा सर्वो विकारः कारणव्यतिरेकेण अनुपलब्धेः असन् । जन्मप्रधवंसाभ्यां प्रागूर्ध्वं चानुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य च तत्कारणव्यतिरेकेण अनुपलब्धेः असत्त्वम् । तदसत्त्वे सर्वाभावप्रसङ्ग इति चेन्न, सर्वत्र बुद्धिद्वयोपलब्धेः सद्बुद्धिरसद्बुद्धिरिति । यद्विषया बुद्धिर्न व्यभिचरति तत्सत्, यद्विषया व्यभिचरति तदसत् इति सदसद्विभागे बुद्धितन्त्रे स्थिते सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे । …सन्घटः सन्पटः सन्हस्तीति । एवं सर्वत्र । तयोर्बुध्योर्घटादिबुद्धिर्व्यभिचरति । तथा च दर्शितम् । न तु सद्बुद्धिः । तस्मात् घटादिबुद्धिविषयोऽसन् व्यभिचारात्, न तु सद्बुद्धिविषयोऽव्यभिचारात् । (पूर्वप्रदर्शिततैत्तिरीयकभाष्यपङ्क्तयोऽत्र स्मर्तव्याः) ……..एवमात्मानात्मनोः सदसतोरुभयोरपि दृष्ट उपलब्धोऽन्तो निर्णयः सत्सदेव, असदसदेवेति त्वनयोर्यथोक्तयोस्तत्त्वदर्शिभिः । तदिति सर्वनाम सर्वं च ब्रह्म तस्य नाम तदिति तद्भावस्तत्त्वं ब्रह्मणो याथात्म्यं तत् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः । इति ।

(आ)   क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।

भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३.३४ ॥ इत्यत्र्स्थभाष्यमेवं वर्तते –

क्षेत्रक्षेत्रज्ञयोरन्तरं इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा शास्त्राचार्योपदेशजनितमात्मप्रत्ययिकं ज्ञानं चक्षुः तेन ज्ञानचक्षुषा,  भूतप्रकृतिमोक्षं च भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या तस्या भूतप्रकृतेर्मोक्षणं अभावगमनं च ये विदुः विजानन्ति, यान्ति गच्छन्ति ते परं परमार्थतत्त्वं ब्रह्म, न पुनर्देहमादत्ते इत्यर्थः । इति ।

इदानीं श्लोकद्वयभाष्यगतविशेषांशाः प्रदर्श्यन्ते ।

१.      तत्रादौ नासतो विद्यते भावः इत्यत्र असतोऽभावो यदुक्तं व्यतिरेकमुखेन तदेव भूतप्रकृतिमोक्षं च इत्यत्र अन्वयमुखेन बोधितं भगवता । द्वितीयश्लोकभाष्ये भूतप्रकृतेर्मोक्षणं अभावगमनं इत्युक्तिः आद्यश्लोकोक्त-असतोऽभावं परामर्शन्निव द्योतते । एवं च भगवत्पादीयं भाष्यं भगवद्विवक्षां सम्यक् स्फुटीकुर्वद् वर्तते ।

२.       असत् तथा भूतप्रकृति: इति शब्दद्वयं समानार्थकम् । तथैव अभावः एवं मोक्षणं इति पदौ समानार्थकौ मन्तव्यौ । द्वितीयश्लोकभाष्यगत परमार्थतत्त्वं इति पदं पूर्वश्लोकगत-तत्त्वदर्शिभि: इत्यनेन निकटं सम्बध्यते ।

३.      अत्रास्मिन् द्वितीयश्लोके मोक्षोपयोगिज्ञानस्य लक्षणद्वयं स्फुटं प्रतीयते – १. प्रकृत्यपरपर्यायक्षेत्रं, दृश्यं, जडं, विषयं, क्षेत्रज्ञात् द्रष्टुः, चैतन्यात्, विषयिणो, विलक्षणतया गुरुशास्त्रोपदेशमनु विविच्य द्रष्टव्यम् तथा २. एतन्मात्रविवेकेन पारमार्थिकाद्वैतसिद्धिर्न स्यादिति भगवान् प्रकृत्याख्यक्षेत्रस्यापि कार्यकारणरूपेण संपूर्णतया अभावत्वमविद्यमानत्वज्ञानमपि क्षेत्रक्षेत्रज्ञविवेकज्ञानस्य पूरकतया उपादिशत् । एतेन नासतो विद्यते इत्यत्रोक्तांशद्वयं श्लोकेऽस्मिन्नपि अवधारितं स्पष्टमुपलभामहे । पूर्वत्रांशद्वयं – सतः ब्रह्मात्मनो अप्रतिहततया सत्यत्वम्, असतः देहादिप्रपञ्चस्य सर्वथापि अविद्यमानत्वम् च इति । एवञ्च प्रपञ्चमिथात्वसाधने भगवतो तात्पर्यसद्भावे संशयलेशोऽपि नास्तीति स्फुटम्।

४.      असत्ब्दस्य व्याख्यानतया वर्तते भूतप्रकृतिशब्दः । असदिति सकारणद्वैतस्य परामर्शः ।  भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या इति व्याख्यानं कार्यकारणात्मकसमस्तद्वैतस्य द्योतकम् । (‘अविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनम् अस्तिता’ । इति २.१६ भाष्ये ।) कार्यमात्रस्य अभावस्तु सुषुप्त्यादावपि सिद्धत्वात्, कारणस्य प्रकृतेः अभावः तत्त्वज्ञानादेव संभवति इति स्पष्टीकर्तुं भूतप्रकृतिमोक्षणं शब्दत उक्तं श्लोके, तथाविधं व्याख्यातं च भाष्ये । कारणोक्तेः कार्यस्याप्युक्तप्राय एव ।

‘नासतो..’ इत्यस्य भाष्यगतप्रपञ्चमिथ्यात्वप्रतिपादकहेतुचतुष्टयप्रदर्शनम् –

१.        ‘न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तु सद्भवति ।’ इत्यस्मिन् वाक्ये वस्तुनोऽसत्त्वे तन्निरूपणे प्रमाणापेक्षता हेतूक्रियते । अत्रेयं व्याप्तिः – यद्यद्वस्तु स्वात्मगोचरे, स्वात्मलाभाय,   स्वभिन्नप्रमातृगतप्रमाणमपेक्षते तत्तन्मिथ्या । अन्याधीनत्वात्, स्वाप्नप्रमाणगृहीतस्वाप्नवस्तुवत् । प्रमाणानां तथा तद्विषयाणां प्रकृत्यपरपर्यायक्षेत्रान्तर्गतत्वं भगवतैवोक्तत्वात् – इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः इति क्षेत्रविवरणावसरे (१३.५) । ‘भूतप्रकृतिमोक्षं च’ (१३.३४) इति क्षेत्रज्ञयाथात्म्यज्ञानबाध्यमानक्षेत्रकुक्षिपतितेन्द्रियैः ग्राह्यमाणविषयाः कथं वस्तुभूततां अर्हन्ति? अन्याधीनत्वेऽपरोऽयं दृष्टान्तः – रज्ज्वामारोपितसर्पवत् इति । यथा आरोपितसर्पस्य अधिष्ठानरज्जुं विना न स्वतन्त्रसत्त्वं तथा । अथ वा यद्यद्वस्तु परप्रकाश्यं सत् स्वप्रकाशहीनं तत्तत् मिथ्या भवितुमर्हति, व्यतिरेकेण ब्रह्मवत्।हेतुरयं माण्दूक्यकारिकाभाष्योक्त (२.५) ‘दृश्यत्वात्’ इति प्रसिद्ध इत्यपि बोध्यम् । हेतोरस्य बलवत्त्वं भाष्ये द्विवारं ’ प्रमाणैर्निरूप्यमाणं, चक्षुषा निरूप्यमाणं’ इति प्रयोगदर्शनादवगम्यते ।

२.      ‘विकारो हि सः, विकारश्च व्यभिचरति ।’ सत्यं वस्तु अव्यभिचारितया सत्यत्वलक्षणभाग्भवति । तदन्यद्वस्तु तु जन्मविपरिणामनाशादिविकारं प्राप्य सदैव व्यभिचरद् मिथ्यात्वलक्षणतामेति । ननु विकारवद्वस्तु अनित्यं भवति इत्येव सर्वैरभ्युपगतं, तत्कथं मिथ्यात्वनिर्णयः क्रियते? इति चेदुच्यते – पूर्वं बीजत्वेन निश्चितं यद् तत् इदानीं अङ्कुरत्वेन गृह्यते, पस्चात्सस्यत्वेन, अनन्तरं वृक्षत्वेन इति प्रत्येककक्षायामपि पूर्वदृष्टवस्तु अगोचरतामेत्य सर्वत्र नाममात्रतावसानमेति । तथा बीजादिसर्वावस्थासु किमपि वस्तु न सिद्ध्यति, केवलं नामरूपद्वयमेव वस्तुभ्रान्त्या व्यवह्रियते । हेतुरयं उत्तरद्वयहेत्वोः नातिव्याप्यते । समनन्तरहेतौ कारणव्यतिरेकेण कार्यस्यानुपलब्धित्वं तथा तदनन्तरहेतौ जन्मप्रधवंसाभ्यां प्रागूर्ध्वं चानुपलब्धित्वमिति नातिव्याप्तिप्रसङ्गः ।

३.      यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेण अनुपलब्धेरसत्, तथा सर्वो विकारः कारणव्यतिरेकेण अनुपलब्धेः असन् ।’ इति भाष्यवाक्यम् ।

अत्र विकारत्वं (विकार्यत्वं) मिथ्यात्वे हेतूक्रियते । दृष्टान्तः वाक्य एव दत्तः । (छान्दोग्ये) वाचारम्भणश्रुतौ एवमेव व्याख्यातम् । तैत्तिरीयभाष्येऽपि ‘विकारोऽनृतम्’ इत्युक्तम् । कारणमेव पश्यन् ‘इदं कार्यं सत्यम्’ इति मत्वा सर्वो जनः मुह्यति । मृदेव पश्यन् घटबुद्ध्याल्म्ब्य मुह्यति । मृद्वयतिरेकेण घट इति वस्तु नास्तीति बोधानन्तरमेव घटसत्यत्वबुद्धिं त्यजति । नामरूपमात्रात्मकं विकारजातं मिथ्या तथा तदुपादानभूतकारणवस्तुमात्रं सत्यम् । कारणमेव कार्याकारेण नूतननाम्ना च व्यवह्रियते ।

४.      ‘जन्मप्रधवंसाभ्यां प्रागूर्ध्वं चानुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य च तत्कारणव्यतिरेकेण अनुपलब्धेः असत्त्वम् ।’ अत्रापि माण्डूक्यकारिकोक्त ‘आदावन्ते च यन्नस्ति वर्तमानेऽपि तत्तथा । विथतैः सदृशा एव अवितथा इव लक्षिताः ’ (२.६) इति न्याय एव भाष्ये प्रदर्शितः । भगवतापि द्वितीयाध्याये (२.२८) एव ‘अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना’ इति अयमेवार्थः बोधितः ।  अत्र भाष्ये ‘अदर्शनादापतितः पुनश्चादर्शनं गतः । नासौ तव न तस्य त्वं वृथा का परिदेवना ॥’ इति महाभारतश्लोक (स्त्रीपर्व.२.१३) उदाहृतः । यत्पूर्वं पश्चादप्यदृष्टं, मध्य एव दृष्टं, तन्मध्येऽपि नास्तीत्येव मन्तवयः; मध्ये तदुपलब्धिराभासमात्रमित्यर्थः ।

ननु व्यभिचारित्वं कथं मिथ्यात्वे हेतुः स्यात्, तस्य अनित्यत्वार्थकमेव सिद्धत्वात् इति पुर्नराशङ्का जायते। तत्र समाधानम् –  भगवता श्लोके सदसद्द्वयविभाग एव कृतः। तत्र सच्छब्दः सत्यब्रह्मबोधक इत्यत्र नास्ति संशयः, तस्य अभावप्रसङ्गो नास्त्येव ।  तदपर-अस्त्-शब्दस्य अनित्यार्थकत्वं नैव संभवति । अतो सद्भिन्नमसत् ब्रह्मभिन्न(विलक्षण)मिथ्याभूतजगत एव सूचक इति नात्र सिद्धान्ते दोषः ।

एवं श्रीमद्भगवद्गीतागतश्लोकद्वये जगन्मिथ्यात्वलक्षणं स्पष्टमुपलभ्यते ।

अस्यैव लेखनस्य आङ्ग्लानुवादोऽत्र वर्तते – (Read the English version of the above Sanskrit blog here:)

https://adbhutam.wordpress.com/2010/02/02/the-real-satyam-the-unreal-mithya/

अन्यदपि लेखनं ‘अद्वैतमकरन्द’ नामकमत्र वर्तते –

https://adbhutam.wordpress.com/2009/11/10/advaita-makaranda-a-blog-in-sanskrit/

श्रीसद्गुरुचरणारविन्दार्पणमस्तु


Responses

  1. Sanskrit version is of not much use to me pl. Pl.leave a comment, if you happen to visitmy blogspot.

    With warm regards.
    Ved Prakash
    http://www.ethicalvaluesinvedas.blogspot.com

    • I intend to post an English version of this very soon. I shall certainly visit your blogspot.

      Regards.

  2. […] A GITA TEACHING OF MITHYAATVA – A BLOGPOST IN SANSKRIT […]

  3. […] A GITA TEACHING OF MITHYAATVA – A BLOGPOST IN SANSKRIT […]

  4. ॥भजामि भगवत्पादम्॥
    “यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत् सत्यम् । यद्रूपेण यन्निश्चितं तत् तद्रूपं व्यभिचरति, तदनृतमित्युच्यते ।” इति यद्भगवत्पादीयं भाष्यन्तदर्थङ्किञ्चिदिव स्फुटीक्रियते ललितालालितेन।
    यत् यद्रूपेण निश्चितं तद्रूपं चेन्न व्यभिचरति तदा तत् सत्यमित्यन्वयः। एवमेवानृतपरवाक्यस्यापि। तथा च, घटो घटरूपेण निश्चितं न घटरूपं व्यभिचरतीति सत्यम्। व्यभिचरति च रजतरूपेण निश्चितं रजतमिति मिथ्या। यत्पदेन यद्गृहीतं तद्विशेष्यकज्ञाने प्रकारतया भासमान यद्रूपपदगोचरम्। तस्य तद्रूपाव्यभिचारश्चोक्तरूपेतरप्रकारकप्रमाविशेष्यत्वम्। यद्यपि मदुक्तेऽपि विद्यते दोषः। स च त्वयैवान्वेषणीयस्तदनुकूलञ्च व्याख्यातव्यम्। तथापि प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि्वमेवात्र विवक्षितमिति मे मतम्।

    • यदुक्तं त्वया एवं, तत्र मध्ये मध्ये मदभिप्रायं पश्य –

      //”यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत् सत्यम् । यद्रूपेण यन्निश्चितं तत् तद्रूपं व्यभिचरति, तदनृतमित्युच्यते ।” इति यद्भगवत्पादीयं भाष्यन्तदर्थङ्किञ्चिदिव स्फुटीक्रियते ललितालालितेन।
      यत् यद्रूपेण निश्चितं तद्रूपं चेन्न व्यभिचरति तदा तत् सत्यमित्यन्वयः। एवमेवानृतपरवाक्यस्यापि। //

      एतावत्पर्यन्तव्याख्यानं साधु, यदपरं उच्यते त्वया तत्र किञ्चिद् वक्तव्यमस्ति –
      // तथा च, घटो घटरूपेण निश्चितं न घटरूपं व्यभिचरतीति सत्यम्//

      घटो घटरूपेण निश्चितं घटनाशे घटरूपं व्यभिचरति, तेन न सत्यशब्दभाग्भवति, अनृतमित्येव गणनीययोऽसौ । इदमेव वाचारम्भणश्रुत्युपदेशः, भाष्यकृदभिप्रेतं च ।

      //व्यभिचरति च रजतरूपेण निश्चितं रजतमिति मिथ्या। //

      इदन्तु सम्मतमेव, घटदृष्टान्तस्यापि एवमेव विनियोगः ।

      //यत्पदेन यद्गृहीतं तद्विशेष्यकज्ञाने प्रकारतया भासमान यद्रूपपदगोचरम्। तस्य तद्रूपाव्यभिचारश्चोक्तरूपेतरप्रकारकप्रमाविशेष्यत्वम्।//

      यदिदमुक्तं त्वया तन्मया संपूर्णतया ग्रहीतुं न पार्यते, मम तर्कशास्त्रापरिचयत्वात् । तथापि त्वदभिप्रायः साधुरेवेति प्रतीयते ।

      // यद्यपि मदुक्तेऽपि विद्यते दोषः। स च त्वयैवान्वेषणीयस्तदनुकूलञ्च व्याख्यातव्यम्। तथापि प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि्वमेवात्र विवक्षितमिति मे मतम्।//

      नात्र विवादावसरः, त्वदुक्तमिथ्यात्वलक्षणस्यैव मया प्रबन्धेऽस्मिन् प्रतिपादितत्वात् ।

      सविनयं सप्राणमं विरमामि । शिवं भवतु सर्वत्र ।

      • घटो घटरूपेण निश्चितं घटनाशे घटरूपं व्यभिचरति, तेन न सत्यशब्दभाग्भवति, अनृतमित्येव गणनीययोऽसौ । इदमेव वाचारम्भणश्रुत्युपदेशः, भाष्यकृदभिप्रेतं च । -इत्येतेनांशेन विनाशित्वमनृतत्वं प्रतिपादयंस्त्वं सम्प्रदायविरुद्धमेव प्रतिपन्नोऽसीति प्रतीयते। अपि च, नायं विवादो मया प्रवर्त्त्यतेऽत्रापि तु काचिच्चर्चा प्रारब्धा बुद्धिविवर्धनाय। घटादौ व्यावहारिकसत्यत्वं स्वीकुर्वतामभिप्रायानुसारमेव मया व्याख्यातम्। तद्दृष्टान्तेन च ब्रह्मणि पारमार्थिकं तदुक्तभाष्ये प्रतिपाद्यते “यथा रजताद्यपेक्षयाऽधिकसत्ताकं घटादि तथा तदधिकसत्ताकं ब्रह्म” इति। सापेक्षन्यूनाधिकसत्ताकत्वं प्रातिभासिकत्वादिभेदनियामकमिति तु स्मरणीयमत्र। भाष्योक्तव्यभिचारपदार्थस्त्वया स्पष्टीकरणीयतां प्राप्नोत्येवम्।

      • यदुक्तं त्वया एवं तस्य समाधानमस्ति उत्तरत्र –

        घटो घटरूपेण निश्चितं घटनाशे घटरूपं व्यभिचरति, तेन न सत्यशब्दभाग्भवति, अनृतमित्येव गणनीययोऽसौ । इदमेव वाचारम्भणश्रुत्युपदेशः, भाष्यकृदभिप्रेतं च । -इत्येतेनांशेन विनाशित्वमनृतत्वं प्रतिपादयंस्त्वं सम्प्रदायविरुद्धमेव प्रतिपन्नोऽसीति प्रतीयते। अपि च, नायं विवादो मया प्रवर्त्त्यतेऽत्रापि तु काचिच्चर्चा प्रारब्धा बुद्धिविवर्धनाय। घटादौ व्यावहारिकसत्यत्वं स्वीकुर्वतामभिप्रायानुसारमेव मया व्याख्यातम्। तद्दृष्टान्तेन च ब्रह्मणि पारमार्थिकं तदुक्तभाष्ये प्रतिपाद्यते “यथा रजताद्यपेक्षयाऽधिकसत्ताकं घटादि तथा तदधिकसत्ताकं ब्रह्म” इति। सापेक्षन्यूनाधिकसत्ताकत्वं प्रातिभासिकत्वादिभेदनियामकमिति तु स्मरणीयमत्र। भाष्योक्तव्यभिचारपदार्थस्त्वया स्पष्टीकरणीयतां प्राप्नोत्येवम्।

        त्वदुक्तविषये मयेदं स्पष्टीक्रियते –

        विनाशित्वमनृतत्वं भाष्यकारैरेव प्रतिपादितं प्रकृतगीताश्लोकभाष्ये (२.१६) मया तत्सर्वमुदाहृतं च – ‘जन्मप्रधवंसाभ्यां प्रागूर्ध्वं चानुपलब्धेः’ इति । अत्र प्रध्वंसशब्देन विनाशित्वमेव मिथ्यात्वे हेतूकृतं भाष्ये । व्यभिचारपक्षेऽपि भाष्योक्तमिथात्वसिद्धिर्भवत्येव । घटनाशे मृत् शकलाः चूर्णाश्च उपलभ्यन्ते, न घटः । तेषु न घटरूपं, घटनाम, घटकार्यं जलाहरणादिक्षमत्वं वा अस्ति। सर्वथापि घटेन असम्बध्यामानत्वेन पूर्वदृष्टघटस्य इदानीं अभावत्वेन पूर्वनिश्चितरूपाद्व्यभिचारोऽस्त्येव इति मिथ्यात्वलक्षणे न दोषः, भाष्यद्विरोधोऽपि नास्ति ।

        अन्यच्च, परमसिद्धान्ते प्रातिभासिक-व्यावहारिकभेदो नैव सेत्स्यति । पारमार्थिकदृष्ट्या प्रातिभासिक-व्यावहारिकद्वयं एकीभूय प्रातिभासिकत्वमेव प्राप्नोति । इदमेव ’ब्रह्म सत्यं जगन्मिथ्या’ इत्यस्य मूलम् । मदुक्तरीत्या सम्प्रदायविरोधशङ्कालेशोऽपि न सिद्ध्यति । मल्लेखने भाष्यवाक्यमिदं उदाहृतं न स्मरसि त्वम् ? // ‘न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तु सद्भवति ।’ // अत्र, ’शीतोष्णादि’ न केनापि रज्जुसर्पवन्मिथ्या इति अभ्युपगतम्, तथापि भाष्यकाररीत्या, श्लोकोपदिष्टानुसारेण, सर्वैरनुभूयमानं शीतोष्णादि असदित्येव सिद्ध्यति । अत्र स्पष्टमुपलभ्यते मयोक्त ’प्रातिभासिक-व्यावहारिकसाम्यम्’ । पश्यान्यदपि भाष्यवाक्यमस्मिन्नेव विषये –

        माण्डूक्यकारिका २.४ भाष्ये पञ्चावयववाक्येन अनुमानप्रयोगः कृतः –
        //जाग्रद्दृश्यानां भावानां वैतथ्यमिति प्रतिज्ञा । दृश्यत्वादिति हेतुः । स्वप्नदृश्यभाववदिति दृष्टान्तः । यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यं तथा जागरितेऽपि दृश्यत्वमविशिष्टमिति हेतूपनयः…//

        इदमेव भाष्यकारानुमतसिद्धान्तः । प्रातिभासिक-व्यावहारिकभेदः यत् त्वदुक्तः तत् व्यवहारदशायामेव, न तु परमार्थतः । परमार्थतः सत्यम् – मिथ्या इति विभागद्वयमेवास्ति, तत्रापि परिष्कारेण सत्यब्रह्मणः मात्रं सत्ता, तदितरस्य असत्त्वमेव इति वस्तुस्थितिः ।

        ऒम् तत् सत्

      • ॥वन्देऽहम्मधुसूदनम्॥
        तथा च व्यभिचरितं विनाशित्वं मिथ्यात्वसाधनाय नालं प्रतिपिपादयिषितं चेदपि भाष्यकारेण । न हि पुरुषविशेषेण उक्तमित्यप्रामाणिकमपि स्वीकरणीयमस्ति नः ।

        योऽपि व्यभिचारित्वसार्थकत्वायायासस्सोऽपि विफलस्तव । घटनाशे सति घटस्यैवाभावात्को व्यभिचरेद्घटत्वादिकमिति ।

        सद्विविक्तत्वं मिथ्यात्वमिति तु युक्तम् । तथापि तत्र सत्त्वं न ब्रह्मत्वम् । तस्याज्ञातत्वात् । किन्तु दोषासहकृतज्ञानसिद्धत्वम् । न च तत्र विनाशित्वं हेतुरिति तूक्तमेव ।

        इति
        महितया ललितया लालितः
        ॥ललितालालितः॥

      • किञ्चिदिदं वक्ष्ये –

        // यद्रूपेण यन्निश्चितं तत् तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम्, ‘वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’, एवं सदेव सत्यम् इत्यवधारणात् // इति तैत्तिरीयकभाष्ये तथा –

        //।) न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तु सद्भवति । विकारो हि सः, विकारश्च व्यभिचरति // इति गीताभाष्ये (२.१६) च तात्पर्यवत्त्वेन उक्तम् । यद्विकरोति तत् तस्य पूर्वनिर्दिष्टरुपाद्व्यभिचरत्येव, पूर्वनिर्दिष्टरूपं इदानीं नोपलभ्यते इति सत्यत्वलक्षणं नार्हति, ‘न असतः विद्यते भावः’ इति न्यायात् । यस्य वस्तुनः भावः न विद्यते, व्यभिचाराद्वा, विनाशाद्वा, कारणव्यतिरेकेणानुपलम्भाद्वा, स्वेतरग्राहकव्यतिरेकेणाऽप्रतीयमानाद्वा, तदसदेवेति मूलतो भगवद्वचनं, न तु भगवत्पादीयम्।

        मतान्तरैर्दूषणं गताष्टशतसंवत्सरप्रसिद्धम्, नाद्य परिहारसम्भवः।

        यत्त्वयोक्तम् //योऽपि व्यभिचारित्वसार्थकत्वायायासस्सोऽपि विफलस्तव । घटनाशे सति घटस्यैवाभावात्को व्यभिचरेद्घटत्वादिकमिति ।// इति, तत्रेदं बोध्यम् – घटनाशे सति यद्वस्तु घटत्वेन प्रतीतं पुरा इदानीं मृच्छकलत्वेन ‘अस्ति’ इति प्रतीयते । तथा च घटत्वाद्व्यभिचारः सिद्ध एव । भाष्यकृदभिप्रायः सर्वदाऽव्यभिचारिणः सतः पारमार्थिकसत्यत्वसाधने । अत एव तैत्तिरीयकभाष्ये च्छान्दोग्यवाक्यमुदाहृतम् अर्थतः – सदेव सत्यमित्यवधारणादिति । दृष्टान्तवाक्ये ‘मृत्तिकेत्येव सत्यम्’ इति, दार्ष्टान्तिके ‘सदेव सोम्येदमग्र आसीत्’ इति, तथा उपदेशवाक्ये ‘तत् सत्यं स आत्मा तत्त्वमसि’ इति च सर्वत्र सत एव पारामार्थिकसत्यं, कार्यस्य कारणव्यतिरेकेण असत्त्वं च उपदिष्टम् ।

        भगवता ‘गतासूनगतासूंश्च..’ २.११ इत्यत्र कार्यस्य देहस्य विनाशित्वं, ‘देहिनोऽस्मिन्यथा देहे …’२.१३ इत्यत्र अवस्थानां व्यभिचारित्वं, ‘मात्रास्पर्शास्तु..’ २.१४ इत्यत्र मात्राशब्देन स्वगोचरे इन्द्रियसापेक्षत्वं,आगमापायित्वं, अनित्यत्वं तथा ‘अव्यक्तादीनि…’२.२४ इत्यत्र आदावन्ते च अनुपलभ्यमानत्वं तथा एतेषां विलक्षणतया आत्मनः नित्यत्वं, अविकार्यत्वं, अव्यभिचारित्वं तथा अविनाशित्वं शब्दतः विस्तरेण प्रदर्शितम् द्वितीयाध्याये। तत्सर्वं समुच्चित्य सारवत्त्वेन ‘नासतो विद्यते..’२.१६ इत्यत्र सदसद्विभागतो भगवतैव सिद्धान्तितम् । एवं अवलोकने भगवत्पादीयं भाष्यं अत्यन्तं ऋजु, स्फुटं भगवदभिप्रायं प्रकाशते इति मम निश्चयः ।

        अन्ते, यदुक्तं त्वया //सद्विविक्तत्वं मिथ्यात्वमिति तु युक्तम् ।// इति तत्तु समञ्जसमेव । सतो लक्षणं किम्? अव्यभिचारित्वं, अविनाशित्वं, इन्द्रियागोचरत्वं तथा कारणरहितत्वम् । एतत्प्रतियोगितया सद्विविक्तस्य लक्षणं – व्यभिचारित्वं. विनाशित्वं, इन्द्रियग्राह्यत्वं तथा कारणाव्यावृत्तित्वम् । एवमालोच्यमाने ‘सत् सदेव, तस्य अभावो नैव युज्यते, असदसदेव, तस्य भावो नैव सम्भवति’ इत्येव भगवद्भगवत्पादीयसिद्धान्तो नैव दोषवान् ।

        भाष्ये दत्तचतुर्णामपि हेतूनां एकैकस्य स्पष्टं गीताश्लोकस्थाधार उपलभ्यते, मया प्रदर्शितं च अत्रैव पूर्वम् ।
        स्वबोधपरिष्कारार्थमेव मम प्रयासो लेखने, न तु परमतीय़ान् समाधातुम् ।

        इतः परं इयं चर्चा पिष्टपेषणतामेव गच्छति इति मे मतिः ।

        ओम् तत् सत्

      • ।परमां कलामुपासे।
        भगवद्वचनस्य कस्मिन्मते स्वारस्यं कथञ्चादुष्टत्वमित्यादि व्याख्यानसापेक्षमिति प्रवृत्तिर्महतां तत्र । अत एव भगवतस्तात्पर्यमेतदेवेति न सहजं वक्तुम् । व्याख्यातुश्च बोधपरिष्कारः परमतीयशङ्कानिरासपूर्वकस्वमतसाधुत्वादिप्रदर्शनेनेति वादप्रवृत्तिरपि ।
        अपि च, व्याख्यानं त्वदीयं साधु विमृष्टमसाधुत्वमालिङ्गति यथा तथा प्रदर्शितमेव प्राक् । तथापि तव श्रान्तिमनुभूयासामर्थ्यञ्च मदीयव्याख्यानावगाहनेऽथवा स्वस्यैव विकलतां विभाव्य त्वद्दोषोद्भावने उपरम्यतेऽत्र । वादिकृतमसाधु दृष्ट्वैव साधु क्रियते विवेचनमिति धन्यवादार्हस्त्वं, प्रेरकत्वात् ।
        श्रुतिश्च सा जाबालाख्या नारदपरिव्राकख्या वा या त्वया पृष्टा । भगवद्गीताया व्याख्यानं यन्मदभिमतन्तत्तु मदीयपत्रे प्रकाशयितुमिष्टमिति नात्राधिकं लिख्यते ।
        चिन्तनक्षमस्त्वं भवेति विभावयन्
        परदेवतालालितः
        ॥ललितालालितः॥

      • । श्ंभोर्मूर्तिश्चरति भुवने शङ्कराचार्यरूपा ।

        विविधमतानुसारिणां परस्परोद्वेगकारणं भवता सम्यगुक्तम् ।

        किं चान्यद्यति-वैराग्यविषयमालम्ब्य भवत्कृतं लेखनं आङ्ग्लभाषान्तरितं रूपं विद्यते किम् ? यद्यस्ति तदुपलब्धिकामोऽहं, अन्येषां आसक्तानां कृते तत्प्रदर्शनाय ।

        ’भवानी भावनागम्या भवारण्यकुठारिका’
        अम्बिकातनयः

      • न मे रुचिर्भाषान्तर इति
        विज्ञापयन्
        ॥ललितालालितः॥

  5. घटस्य विवर्त्तता वा परिणामता वाचार्याणां सम्मता । तत्रोभयत्रापि प्रमाणवचनं किम् । युक्तयश्च काः । उपरि तु मिथ्यात्वमेव साधितमिति न गतार्थता शङ्कनीयापि । ममाग्रिमलेखनस्य मूलं स्यादेषा चर्चा ।

    • भवदभिप्रायः – घटस्य विवर्त्तता वा परिणामता वाचार्याणां सम्मता । तत्रोभयत्रापि प्रमाणवचनं किम् । युक्तयश्च काः । उपरि तु मिथ्यात्वमेव साधितमिति न गतार्थता शङ्कनीयापि । ममाग्रिमलेखनस्य मूलं स्यादेषा चर्चा ।

      मम समाधानम् – च्छान्दोग्य ६.२.३ भाष्ये ’यथा मृद्घटाद्याकारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुधिपरिकल्पितेन …’ इत्युक्तम् । तत्र व्याख्याने आनन्दगिरयः आहुः – परिणामविवर्तवादावाश्रित्योदाहरणद्वयमिति ।

      तत्र इदमेव च्छान्दोग्यवाक्यं ’तदैक्षत बहु स्यां ’ इत्यादि प्रमाणं यत्र भगवत्पादीयं भाष्यं उपर्युदाहृतम् । मृदः बहुमृद्वस्त्वाकारेण उपलभ्यमानं दृष्टान्तीकृत्य एकस्य ब्रह्मणः बह्वाकारेण सम्भवने ’वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति’ न्यायपूर्वकश्रुतिमाधारितः । इदमेव वाक्यमाश्रित्य भगवत्पादा बहुत्र कार्यकारणयोरनन्यतवम् कार्यस्य मिथ्यात्वम् च स्थापयामाहुः सूत्र-उपनिषद्भाष्ये । युक्तिरपि तैरेव प्रदर्शिता ’कार्यं कारणव्यतिरेकेण नोपलभ्यते’ ’आदावन्ते च यन्नास्ति’ इत्याद्याः ।

      एवं समर्प्य समापये

      • उपकारकमेतदुत्तरन्तवेति
        विज्ञापयन्
        ॥ललितालालितः॥


Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

Categories

%d bloggers like this: