In several places in the Bhashya, Shankaracharya has stated that Brahman is not in the gamut of being ‘named.’:
शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् । (The factors for ‘name’ being genus, attribute, action and connection are all absent in Brahman.)
न तज्जात्यादिविशेषणवद्ब्रह्म (Brahman is free of attributes based on genus, etc.)
जात्यादिरहितत्वाच्छान्तम् अत एव अद्वयं च तदित्यर्थः ॥ (Because Brahman is devoid of jAti (genus), etc. it is tranquil.)
In the Bh.Gita Bhashya 13.12 Shankara says:
‘गौः’ ‘अश्वः’ इति वा जातितः, ‘पचति’ ‘पठति’ इति वा क्रियातः, ‘शुक्लः’ ‘कृष्णः’ इति वा गुणतः, ‘धनी’ ‘गोमान्’ इति वा सम्बन्धतः । न तु ब्रह्म जातिमत् , अतः न सदादिशब्दवाच्यम् । नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात् । नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. उ. ६ । १९) इति श्रुतेः । न च सम्बन्धी, एकत्वात् । अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तम् ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभिश्च ॥ १२ ॥
Translation:
For, every word used for expressing an object, when heard by listeners, makes them understand its meaning through the comprehension of its significance with the help of genus, action, ality and relation; not in any other way, because that is not a matter of experience. To illustrate this: a cow, or a horse, etc. (is comprehended) through genus; cooking or reading, through action; white or black, through quality; a rich person or an owner of cows, through relation. But Brahman does not belong to any genus. Hence it is not expressible by words like ‘being’ etc.; neither is It possessed of any qualitity with the help of which It could be expressed through qualifying words, for It is free from qualities; nor can It be expressed by a word implying action, It being free from actions-which accords with the Upanisadic text, ‘Partless, actionless, calm’ (Sv. 6.19). Nor has It any relation, since It is one, non-dual, not an object of the senses, and It is the Self. Therefore it is logical that It cannot be expressed by any word. And this follows from such Upanishadic texts as, ‘From which, words turn back’ (Tai. 2.4.1), etc. Therefore it is logical that It cannot be expressed by any word. And this follows from such Upanishadic texts as, ‘From which, words turn back’ (Tai. 2.4.1), etc.
Kenopanishat: न तत्र वाग्गच्छति (Words do not contact Brahman)
Taittiriyopanishat यतो वाचो निवर्तन्ते…. ‘From which, words turn back’
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः ८
https://sa.wikisource.org/s/iye
प्रशान्तमायागुणकर्मलिंगं
अनामरूपं सदसद्विमुक्तम् । (Name, forms are not natural to Brahman)
ज्ञानोपदेशाय गृहीतदेहं
नमामहे त्वां पुरुषं पुराणम् ॥ २५ ॥
Verses that say Brahman is ‘un-namable – avachyam’
Brahmanda Purana:
https://sa.wikisource.org/s/8aq
यद्गत्वा न निवर्त्तन्ते क्षेत्रज्ञं तु निरञ्जनम् ।
अवाच्यं तदनाख्यानादग्राह्यं वादहेतुभिः ॥ ३,३.१०४ ॥
Brahman is not ‘named’ because it is beyond words.
Vayupurana also has this verse.
वराहोपनिषत् Varahopanishat:
वापि त्रिविधोच्चारणेन तु । तैलधारामिवच्छिन्नं दीर्घघण्टानिनादवत् ॥ ६९॥ अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् । हस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं…
https://sa.wikisource.org/s/wje
Muktikopanishad: No name, gotra for Brahman:
अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत् ।
अनामगोत्रं मम रूपमीदृशं
भजस्व नित्यं पवनात्मजार्तिहन् ॥ ७२॥
जयाख्यसंहिता/पटलः ५ Jayakhya samhita (Pancharatra):
अनुभूतं न भूयस्त्वं मया वस्तुं हि शक्ष्य(1)से। [ब्रह्ममो दुरवबोधत्वम्] 5-6 अवाच्ये वर्तते कुत्र वाग् वै संवेदनं विना ।। 23 ।। (1. क्यते C. L.) षण्णां यद्वद्रसानां..
मैत्रायण्युपनिषत् – Maitrayanyupanishad:
- अथ यत्र द्वैतीभूतं विज्ञानं तत्र हि शृणोति पश्यति जिघ्रति रसयति चैव स्पर्शयति सर्वमात्मा जानीतेतियत्राद्वैतीभूतं विज्ञानं कार्यकारणकर्मनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यं किं तदवाच्यम् ॥ ७
- अवाच्योर्ध्वा वा गतिः
Narada puranam:
नारदपुराणम्- पूर्वार्धः/अध्यायः ३५
https://sa.wikisource.org/s/4vn
जानन्तिरुवाच
सत्यं सत्यं महाभाग चित्तं भ्रान्तं सुनिश्चितम्
अविद्यानिलयं चित्तं कथं सद्भावमेष्यति ६१
ममेति गदितं यत्तु तदपि भ्रान्तिरिष्यते
अहङ्कारो मनोधर्म आत्मनो न हि पण्डित ६२
पुनश्च कोऽहंमित्युक्तं वेदमाले त्वया तु यत्
मम जात्यादिशून्यस्य कथं नाम करोम्यहम् ६३
(Brahman has no genus, attribute, action, relationship)
अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः
निरूपस्याप्रमेस्य कथं नाम करोम्यहम् ६४
परं ज्योतिस्स्वरूपस्य परिपूर्णाव्ययात्मनः
अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ६५
स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः
अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते ६६
ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम्
परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज ६७
तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम्
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ६८
एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ६९
उपाधिरहितं ब्रह्म स्वप्रकाशं निरञ्जनम्
अहमेवेति निश्चित्य परां शान्तिमवाप्तवान् ७०
Brahman is to be realized as free of upadhis, is self-luminous, taintless. This is my true nature.)
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपणं नाम पञ्चत्रिंशोऽध्यायः३५
Thus Atman/Brahman is said to be beyond sound/word as it is devoid of genus, etc. in the Upanishadic lore, Puranas, etc.
Om Tat Sat