Posted by: adbhutam | May 10, 2024

Two Selves not possible in one body

एकस्मिन् शरीरे द्वे चैतन्ये (द्वौ द्रष्टारौ) न सम्भवतः

Two Selves not possible in one body

For English translation see:
page 121, 122:
https://archive.org/details/BrahmaSutraSankaraBhashyaEnglishTranslationVasudeoMahadeoApte1960/page/n161/mode/2up

ब्रह्मसूत्रभाष्यम् प्रथमोऽध्यायः द्वितीयः पादः सूत्रम् २० –

शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥

नेति पूर्वसूत्रादनुवर्तते । शारीरश्च नान्तर्यामी स्यात् । कस्मात् ? यद्यपि द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति, तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कार्त्स्न्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति । अपि चोभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते — ‘यो विज्ञाने तिष्ठन्’ (बृ. उ. ३ । ७ । २२) इति काण्वाः । ‘य आत्मनि तिष्ठन्’ इति माध्यन्दिनाः । ‘य आत्मनि तिष्ठन्’ इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । ‘यो विज्ञाने तिष्ठन्’ इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इति । तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम् ।

कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येते यश्चायमीश्वरोऽन्तर्यामी, यश्चायमितरः शारीरः ? का पुनरिहानुपपत्तिः ? ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुतिवचनं विरुध्येत । अत्र हि प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति । नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत् , न; नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च । अत्रोच्यते — अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशः, न पारमार्थिकः । एको हि प्रत्यगात्मा भवति, न द्वौ प्रत्यगात्मानौ सम्भवतः । एकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा घटाकाशो महाकाश इति । ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते । तथा च श्रुतिः — ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ इत्यविद्याविषये सर्वं व्यवहारं दर्शयति । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति विद्याविषये सर्वं व्यवहारं वारयति ॥ २०

Posted by: adbhutam | May 8, 2024

‘GhaTakasha’ analogy in Advaita – Many quotes

श्रीगुरुभ्यो नमः

अद्वैतभाष्यादिवाङ्मये घटाकाशदृष्टान्तो जीवपरयोरौपाधिकभेदव्यवस्थापनार्थम् अतिव्यापकतया उपयुज्यते | अत्र तस्य दृष्टान्तस्य विविधदृष्टयो वाक्योदाहरणद्वारा प्रपञ्च्यन्ते | एतानि वाक्यानि पठनेन दृष्टान्तस्य बहुमुखपरिचयं प्राप्तुं शक्यते |

Shri Gurubhyo Namah

In Advaita literature such as the bhashyas, the analogy of space within a pot (ghata-akasha) is extensively used to establish the distinction between the individual self and the Supreme Self as being merely due to limiting adjuncts (upadhis). Here, various perspectives on this analogy are elaborated through sample sentences. By reading these passages, one can gain a multifaceted understanding of the analogy.

I thank the friend who prompted me to do this exercise.

In the Prasthana traya bhashya, Shankara has used the expression ‘nitya shuddha buddha mukta svabhava’ several times to refer to Brahman and the Atman. A couple of samples are given below where Shankara even says that this is a teaching of the Upanishads:

Brahmasutra Bhashya 1.1.4:

‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः — नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः । तदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यति ।

1.1.2:

अन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि उदाहर्तव्यानि ॥ २ ॥

Upon a search we find that the Nrsimha Tapini Upanishat has an expression that comes closest to Shankara’s expression:

https://sanskritdocuments.org/doc_upanishhat/nrisinha.html

तस्मादद्वय एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः प्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं हीदं सर्वं सदेव पुरस्तात्सिद्धं हि ब्रह्म …

There is a Bhashya on this Upanishad, stated to be of Shankaracharya.

In the Bhagavata and other Puranas too we find that Brahman is stated to be ‘shuddham’ in the sense of being free of all attributes:

श्रीमद्भागवतपुराणम्/स्कन्धः ४/अध्यायः ७
https://sa.wikisource.org/s/ebv

दक्ष उवाच

शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।
तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्यामास्ते भवानपरिशुद्ध इवात्मतन्त्र: ॥ २६ ॥ 4.7.26

Daksha does a stuti:

Brahman is established in Its transcendental nature, is Shuddham, having lapsed all intellectual states, Pure Consciousness, Fearless, having negated the Maya power. Having resorted to that very Maya you are positioning yourself in it (maya) and appear as though ‘impure’ (as though tainted by Maya since you are thereby connecting yourself to the world) and yet independent.

The commentary of Sridhara Swamin brings out the Nirguna aspect and many other Vedantic concepts of Brahman and jiva:

  • * ननु साक्षात्परमेश्वर एव रुद्रस्तस्य ब्रह्मपुत्रत्वेन जीवत्वमनुकारमात्रं हन्त ! किमिति त्वया भेददृष्ट्याऽसाववज्ञात इति मां भगवानाक्षेप्स्यतीत्याशंक्याप्रच्युतस्वरूपस्य जीवधर्मनाट्यं तवैव संगच्छते नान्यस्येत्याह । *शुद्धमिति । स्वधाम्नि स्वस्वरूपे तिष्ठन्भवान् शुद्धं चिन्मात्रं चैतन्यघनः । शुद्धत्वे हेतुः । उपरता नित्यनिवृत्ताऽखिला बुद्ध्यवस्था यस्मात् । अतः एकं भेदशून्यम् अत एवाश्रयम् । “द्वितीयाद्वै भयं भवति” इति श्रुतेः । जीवस्यापि वस्तुत एवंभूतत्वात्तद्वैलक्षण्यार्थमुक्तम् । मायां प्रतिषिध्याभिभूय स्वतंत्र एव संस्तया मायया पुरुषत्वं मनुष्यनाट्यमुपेत्य तस्यां मायायां तिष्ठन्नपरिशुद्ध इव रागादिमानिवास्ते । रामकृष्णाद्यवतारे तथा प्रतीयते भवानित्यर्थः । अन्ये त्वविद्योपाधयो मायाऽभिभूताः संसरन्ति । अतस्त्वमेवेश्वरो न रुद्रादय इति भावः । अत एवेमां दृष्टिं भगवान्वारयिष्यति । “अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।” इत्यादिना ॥ २६ ॥ * *

Sridhara Swamin says: the transcendental (maya-free) nature of Brahman is also the nature of the jiva in truth. He adds: The Supreme Lord alone is verily Rudra, and the taking on the role of the son of Brahma is only an ‘as though’ and not real. If someone were to take it to be real and think that the supreme Lord alone is Ishwara and not Rudra, etc., such a mistaken notion will be set right by Bhagavan himself in the sequel by proclaiming: ‘I (Vishnu), Brahma and Rudra are together the Cause of this creation, etc.’.

The Bhagavatam, in this very episode, tells us that Bhagavan has criticised differentiating between the Trimurtis and gives the analogy of a man not differentiating in hierarchy between the various parts of his own body and saying that those who violate this will not attain peace.

विष्णुधर्मः/अध्यायाः ०४१-०५०
https://sa.wikisource.org/s/3gas

विष्ण्वाख्यमेवम् तद्ब्रह्म शुद्धमत्यन्तनिर्मलम् |
अभेदम् बहुधा भिन्नम् दृश्यते कर्मभेदिभिः || ५६ ||
योगिभिर्दृश्यते शुद्धम् रागाद्युपशमामलैः |
रागिभिर्विषयाकारम् तदेव ब्रह्म दृश्यते || ५७ ||

Vishnu, is that Shuddha Brahman, extremely Pure (the association of Maya alone makes Brahman attributed – saguna). Those who are unenlightened see the One Brahman alone as variegated. However the Yogins, having purified themselves, realize Brahman as ‘shuddham.’ But those afflicted by desire view that Abheda, Non-dual, Brahman as the objectified world of duality/variety.

अहेयमक्षरम् शुद्धमसम्भूतिनिरञ्जनम् |
विष्ण्वाख्यम् परमम् ब्रह्म यद्वै पश्यन्ति सूरयः || ६५ ||

Brahman is Shuddham, free from all Maya afflictions. The realized sages get the vision of Vishnu, the (Shuddha) Para Brahman.

Vishnu Purana:

http://satsangdhara.net/vp/adhyaya-02-14.htm

This is the story of Ribhu – Nidagha: This story is also present in Narada and Agni Puranas.

ध्यानं चैवात्मनो भूप परमार्थार्थशब्दितम् ।
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २६ ॥
परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्‌द्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २७ ॥
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ।
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २८ ॥
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
In the Paramarthik sense, Brahman is Shuddha, Nirguna, free of Prakriti association.

In another chapter of the same Vishnu Purana:

https://www.transliteral.org/pages/z90413234954/view

ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥ २,१२.३८ ॥
ज्ञानस्वरूपो भगवान्यतोसावशेषमूर्तिर्न तु वस्तुभूतः ।
ततो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि ॥ २,१२.३९ ॥
यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् ।
तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ २,१२.४० ॥

The Pure Consciousness that is Bhagavan is the source from which is the mental projection, the world of mountains, oceans, etc. When, however, one realizes that Brahman as Shuddham, one’s own true nature, by Pure knowledge, all karma-s cease to be, the multiplicity, naanaatva, (Here the Aham Brahmasmi realization is what is hinted.)

वस्त्वस्ति किं कुत्राचिदादिमध्यपर्यन्तहीनं सततैकरूपम् ।
यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ २,१२.४१ ॥
मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः ।
जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ॥ २,१२.४२ ॥
ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् ।
एकं सदैकं परमः स वासुदेवो न यतोऽन्यदस्ति ॥ २,१२.४४ ॥

The concept of Vasudeva is Pure Consciousness, free of all impurities.

नारदपुराणम्- पूर्वार्धः/अध्यायः ४९
https://sa.wikisource.org/s/4zc

भेदकारि परेभ्यस्तु परमार्थो न भेदवान् । । (Bheda, difference, is not there in the Paramarthika Truth)
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।। ४९-२७ ।।

मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः ।।
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ।। ४९-२८ ।।

परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ।।
एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ।। ४९-२९ ।।

Thus the Advaitic concept of Shuddha Brahman is well based on the Veda and Veda Vyasa’s works.

Om Tat Sat

Posted by: adbhutam | May 1, 2024

Pot-space analogy for Aikya/abheda

Pot-space analogy for Aikya/abheda

श्रीगुरुभ्यो नमः

शास्त्रेषु घटाकाशदृष्टान्तोऽतिप्रसिद्ध ऐक्यमवबोधयितुं जीवपरयोः | अद्वैतभाष्यतदनुसारीतरग्रन्थेषु त्वयं दृष्टान्तो बहुवारं व्यापकतया प्रयुज्यत ऐक्यख्यापनार्थमेव | अत्र कानिचन ग्रन्थप्रमाणवाक्यानि उदाह्रियन्ते यत्र तेषामद्वैतभावस्तु सुस्पष्टः | विशिष्टव्याख्याननिरपेक्षतयैव अर्थग्र्हणं सुशकमिति न विवरणदाने प्रयासः क्रियते |

Srigurubhyo namah

There are many passages across the Shruti, Smriti, Puranas where the pot-space and Infinite space analogy is stated to drive home the identity (aikyam/abheda) of the jiva (post-space) and Paramatman (infinite / unconditioned space). In the Advaita Bhashya and other texts we have this analogy stated profusely to convey the same theme: jivatma-paramatma identity/aikyam/abheda.

Given below are many such instances from texts such as the Bhagavatam, other Puranas, Upanishads, etc. In almost all cases the statements themselves are unambiguous about the identity/aikyam. Even in very rare cases where such identity is not explicit, by the other accompanying analogies the implicit identity conveyed by the analogy is beyond any doubt. Other schools have to contend with this analogy since aikyam/abheda is not their doctrine.

Translation of the verses or the commentaries is not given in every case. The theme is quite clear. With respect to the Bhagavatam, the commentary of Sridhara swamin is given in most cases.

Bhagavatam:

श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः १५
https://sa.wikisource.org/s/e63

न ह्यन्तरं भगवतीह समस्तकुक्षौ ।
आत्मानमात्मनि नभो नभसीव धीराः ।
पश्यन्ति यत्र युवयोः सुरलिङ्‌गिनोः किं ।
व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥ 3.15.33

श्रीधरव्याख्यानम् –
भयशंकाबीजं च भेदः स च कस्याप्यस्मिन्नास्तीत्याहुः । न हीति । समस्तं विश्वं कुक्षौ यस्य यत्र यदेह भगव धीरा विद्वांस आत्मनोऽतरं भेदं न पश्यंति किं त्वस्मिन्परमात्मन्यात्मानमंतर्भूतं पश्यंति महाकाशे घटाकाशमिव तदा यथा- ऽन्यस्य राजादेरुदरभेद्युदरभेदयुक्तं भयं भवति तथाऽस्य श्रीहरेस्तादृग्भयं यतो येन कारणेन सुरवेषधारिणोर्युवयोर्विशेषेणोत्पा दितं तत्किम् । न किंचिदित्यर्थः ॥ ३३ ॥

श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ५
https://sa.wikisource.org/s/tsx

घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥

श्रीधरस्वामिविरचिता –

यस्माद्देहोपाधिकोऽयमात्मनो जन्मादिसंसारभ्रमस्तस्मादुपाधिनिवृत्तौ मुच्यत इति सदृष्टांतमाह । घट इति । यथा घटोपाधेः पूर्वमिव पुनर्घटे भिन्ने तदंतर्वर्त्यवकाश आकाश एव स्याद्यथा । एवं देहे मृते तत्त्वज्ञानेन लीने सति ॥ ५ ॥

When the ghata breaks up, the space of the limited by the pot ‘becomes’ the (great) space, just as there was only one sky before the formation of the pot. Similarly, when a body dies, that (free) Atman ‘becomes’ Brahman.

Bhagavatam:

ज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ 54 ॥ 1.13.55

Sridhari commentary:

  • समाधिमाह विज्ञानेति द्वाभ्याम् । आत्मानं मनोऽहंकारास्पदं स्थूलदेहाद्वियोग्य विज्ञानात्मनि बुद्धौ संयोज्यैकीकृत्य तं च विज्ञानात्मानं दृश्यांशाद्वियोज्य क्षेत्रज्ञे द्रष्टरि प्रविलाप्य तं च क्षेत्रज्ञ द्रष्ट्रंशाद्वियोज्याधार आश्रयसंज्ञे ब्रह्मणि प्रविलाप्य घटांबर घटोपाधेर्वियोज्य यथा महाकाशे प्रविलाप्यते तद्वत् ॥ ५४ ॥ * *

एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥ 11.18.33 भागवतम्

Verse 10.54.44 Bhagavatam:

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।
नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ ४४ ॥

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०२१-०२५
https://sa.wikisource.org/s/2i49

एको नानास्वरूपोऽभूद् घटाकाश इव स्फुटम् ।
जलपूर्णेषु कुम्भेषु रविर्नाना यथेक्ष्यते ॥१६॥

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०५१-०५५
बालके । सोऽपि विह्वलतां ज्ञात्वा पुरवासिजनस्य ह ॥१७॥ एकोऽनन्तत्वमापेदे घटाकाश इव क्षणात् । जलकुम्भगतो यद्वत्सविताऽनेकरूपवान् ॥१८॥

अवधूतगीता
रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः। दृढबोधश्च धीरश्च स गच्छेत्परमं पदम्॥२४॥ घटे भिन्ने घटाकाश आकाशे लीयते यथा। देहाभावे तथा योगी स्वरूपे परमात्मनि॥२५॥ उक्तेयं कर्मयुक्तानां

जाबालदर्शनोपनिषत्/खण्डः १०
मायया न स्वरूपतः ॥ २॥ तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥ ३॥ तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना…

अवधूतगीता
सुलीनं भेदवर्जितम्। शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे॥३१॥ न घटो न घटाकाशो न जीवो न जीवविग्रहः। केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम्॥३२॥ सर्वत्र

अध्यात्मोपनिषत्
मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥ ६ ॥ घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥ ७ ॥..

Vishnudharma:

विष्णुधर्मः/अध्यायाः १०१-१०९
https://sa.wikisource.org/s/3gay

योगसेवानिरोधेन प्रलीने तत्र चेतसि |
पुरुषः कारणाभावाद्भेदम् नैवानुपश्यति || ४३ ||
परात्मनोर्मनुष्येन्द्र विभागो(S)ज्ञानकल्पितः | (
क्षये तस्यात्मपरयोर्विभागाभाग एव हि || ४४ ||
परमात्मात्मनोर्योऽयमविभागः परन्तप |
स एव परमो योगः समासात् कथितस्तव || ४५ ||
यथा कमण्डलौ भिन्ने तत्तोयम् सलिले गतम् | (Water in a Kamandalu one with unconfined water)
व्रजत्यैक्यम् तथैवैतदुभयम् कारणक्षयात् || ४६ ||
यथाऽग्निरग्नौ सन्क्षिप्तः समानत्वम् अनुव्रजेत् | (Fire and fire are non-different)
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः || ४७ ||
न एवम् ब्रह्मात्मनोर्योगादेकत्वमुपपन्नयोः |
भेदः कलशाकाशनभसोरिव जायते || ४८ || (space in a pot and infinite space)
प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान् |
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते || ४९ ||
घटध्वम्से घटाकाशम् न भिन्नम् नभसो यथा | (space in pot….)
ब्रह्मणा हेयविध्वम्से विष्ण्वाख्येन पुमाम्स्तथा || ५० ||
भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना | (air in bellows one with the all-pervading air)
क्षीणपुण्याघबन्धस्तु तथाऽऽत्मा ब्रह्मणा सह || ५१ ||

With so many analogies, the Vishnudharma declares the absolute identity of the jiva and Brahman.

https://jainqq.org/booktext/Descriptive_Catalogue_of_Sanskrit_Manuscripts_in_Madras_Vol_18/020203

आत्मनो ब्रह्मणो भेदमनन्तं कः करिष्यति ।
परात्मनोर्मनुष्येन्द्र विभागोऽज्ञानकल्पितः ॥’ इति ।

अग्निपुराणम्/अध्यायः ३८२
https://sa.wikisource.org/s/4r1

घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् ।
मुक्तो जीवो ब्रह्मणैवं सद्‌ब्रह्म ब्रह्म वै भवेत् ।। ३८२.३५ ।।

Ghatakasa – Mahakasha example is mentioned to convey this unity. A liberated soul remains as Brahman. Ghatakasa is from pot that is a limiting adjunct. In fact, space did not get any real limitation. When the body is destroyed, the Atman in it remains one with the Para Brahman. This union is not any action. No real change happens. Just the upadhi is removed.

Again the Agni purana:

https://sa.wikisource.org/s/4qv
आकाशमेकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ।। ३७६.१४ ।।

Just as the one infinite space is as though divided by many different names (as pot-space, room-space, etc.), the same moon is appearing as many, being reflected in many reservoirs.

Analogy for avaccheda (limitation) and pratibimba (reflection) in the Yajnavalkya Smriti:

याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/यतिधर्मप्रकरणम्
https://sa.wikisource.org/s/3ob

आकाशं एकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् । । ३.१४४ । ।

साङ्ख्यकारिका (माठरवृत्तिसहिता)

https://sa.wikisource.org/s/3g3g

अत्रोदाहृतमिदं वाक्यम् –

“देहे मोहाश्रये भग्ने युक्तः स परमात्मनि ।
कुम्भाकाश इवाकाशे लभते चैकरूपताम्” ॥

(A verse is cited in the commentary to the Sankhya Karika with the same analogy of pot-space.)

The above is a sample, in an assortment of scriptural texts, for the extremely popular pot-space analogy conveying the aikyam/abheda of jivatma and paramatma.

Om Tat Sat

In several places in the Bhashya, Shankaracharya has stated that Brahman is not in the gamut of being ‘named.’:

शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् । (The factors for ‘name’ being genus, attribute, action and connection are all absent in Brahman.)

न तज्जात्यादिविशेषणवद्ब्रह्म (Brahman is free of attributes based on genus, etc.)

जात्यादिरहितत्वाच्छान्तम् अत एव अद्वयं च तदित्यर्थः ॥ (Because Brahman is devoid of jAti (genus), etc. it is tranquil.)

In the Bh.Gita Bhashya 13.12 Shankara says:

‘गौः’ ‘अश्वः’ इति वा जातितः, ‘पचति’ ‘पठति’ इति वा क्रियातः, ‘शुक्लः’ ‘कृष्णः’ इति वा गुणतः, ‘धनी’ ‘गोमान्’ इति वा सम्बन्धतः । न तु ब्रह्म जातिमत् , अतः न सदादिशब्दवाच्यम् । नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात् । नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. उ. ६ । १९) इति श्रुतेः । न च सम्बन्धी, एकत्वात् । अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तम् ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभिश्च ॥ १२ ॥

Translation:
For, every word used for expressing an object, when heard by listeners, makes them understand its meaning through the comprehension of its significance with the help of genus, action, ality and relation; not in any other way, because that is not a matter of experience. To illustrate this: a cow, or a horse, etc. (is comprehended) through genus; cooking or reading, through action; white or black, through quality; a rich person or an owner of cows, through relation. But Brahman does not belong to any genus. Hence it is not expressible by words like ‘being’ etc.; neither is It possessed of any qualitity with the help of which It could be expressed through qualifying words, for It is free from qualities; nor can It be expressed by a word implying action, It being free from actions-which accords with the Upanisadic text, ‘Partless, actionless, calm’ (Sv. 6.19). Nor has It any relation, since It is one, non-dual, not an object of the senses, and It is the Self. Therefore it is logical that It cannot be expressed by any word. And this follows from such Upanishadic texts as, ‘From which, words turn back’ (Tai. 2.4.1), etc. Therefore it is logical that It cannot be expressed by any word. And this follows from such Upanishadic texts as, ‘From which, words turn back’ (Tai. 2.4.1), etc.

Kenopanishat: न तत्र वाग्गच्छति (Words do not contact Brahman)

Taittiriyopanishat यतो वाचो निवर्तन्ते…. ‘From which, words turn back’

श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः ८
https://sa.wikisource.org/s/iye

प्रशान्तमायागुणकर्मलिंगं
अनामरूपं सदसद्विमुक्तम् । (Name, forms are not natural to Brahman)

ज्ञानोपदेशाय गृहीतदेहं
नमामहे त्वां पुरुषं पुराणम् ॥ २५ ॥

Verses that say Brahman is ‘un-namable – avachyam’

Brahmanda Purana:

https://sa.wikisource.org/s/8aq
यद्गत्वा न निवर्त्तन्ते क्षेत्रज्ञं तु निरञ्जनम् ।
अवाच्यं तदनाख्यानादग्राह्यं वादहेतुभिः ॥ ३,३.१०४ ॥

Brahman is not ‘named’ because it is beyond words.
Vayupurana also has this verse.

वराहोपनिषत् Varahopanishat:

वापि त्रिविधोच्चारणेन तु । तैलधारामिवच्छिन्नं दीर्घघण्टानिनादवत् ॥ ६९॥ अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् । हस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं…

https://sa.wikisource.org/s/wje
Muktikopanishad: No name, gotra for Brahman:

अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत् ।
अनामगोत्रं मम रूपमीदृशं
भजस्व नित्यं पवनात्मजार्तिहन् ॥ ७२॥

जयाख्यसंहिता/पटलः ५ Jayakhya samhita (Pancharatra):

अनुभूतं न भूयस्त्वं मया वस्तुं हि शक्ष्य(1)से। [ब्रह्ममो दुरवबोधत्वम्] 5-6 अवाच्ये वर्तते कुत्र वाग् वै संवेदनं विना ।। 23 ।। (1. क्यते C. L.) षण्णां यद्वद्रसानां..

मैत्रायण्युपनिषत् – Maitrayanyupanishad:

  1. अथ यत्र द्वैतीभूतं विज्ञानं तत्र हि शृणोति पश्यति जिघ्रति रसयति चैव स्पर्शयति सर्वमात्मा जानीतेतियत्राद्वैतीभूतं विज्ञानं कार्यकारणकर्मनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यं किं तदवाच्यम् ॥ ७
  2. अवाच्योर्ध्वा वा गतिः

Narada puranam:

नारदपुराणम्- पूर्वार्धः/अध्यायः ३५
https://sa.wikisource.org/s/4vn

जानन्तिरुवाच
सत्यं सत्यं महाभाग चित्तं भ्रान्तं सुनिश्चितम्
अविद्यानिलयं चित्तं कथं सद्भावमेष्यति ६१
ममेति गदितं यत्तु तदपि भ्रान्तिरिष्यते
अहङ्कारो मनोधर्म आत्मनो न हि पण्डित ६२
पुनश्च कोऽहंमित्युक्तं वेदमाले त्वया तु यत्
मम जात्यादिशून्यस्य कथं नाम करोम्यहम् ६३

(Brahman has no genus, attribute, action, relationship)

अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः
निरूपस्याप्रमेस्य कथं नाम करोम्यहम् ६४
परं ज्योतिस्स्वरूपस्य परिपूर्णाव्ययात्मनः
अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ६५
स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः
अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते ६६
ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम्
परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज ६७
तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम्
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ६८
एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ६९
उपाधिरहितं ब्रह्म स्वप्रकाशं निरञ्जनम्
अहमेवेति निश्चित्य परां शान्तिमवाप्तवान् ७०
Brahman is to be realized as free of upadhis, is self-luminous, taintless. This is my true nature.)

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपणं नाम पञ्चत्रिंशोऽध्यायः३५

Thus Atman/Brahman is said to be beyond sound/word as it is devoid of genus, etc. in the Upanishadic lore, Puranas, etc.

Om Tat Sat

Read full Kannada Article on ‘Who is the Buddhist in disguise?’

https://tinyurl.com/3xurx5pe

Shri Krishna, while preaching the spiritual philosophy to Uddhava, says, ‘Variety is an illusion, from which the aparokshajnani comes out’:

श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ११

https://sa.wikisource.org/s/apk

वैशारद्येक्षयासङ्ग शितया छिन्नसंशयः।

प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते १२।

Just as the one who wakes up from a dream realizes that the objects of his dream are not true, the Self-realized man is freed from the illusion of multiplicity, difference, by Aparokshajnana.

एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि।

उपारमेत विरजं मनो मय्यर्प्य सर्वगे २१।

Diversity is a self-conceived illusion. Sridhara Swamy’s commentary says that the bodies and the outer world are all adhyasa, a superimposition.

The verses also are a paraphrasing of the famous Upanishadic statement: neha nAnAsti kinchana.. नेह नानास्ति किंचन॥ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥ ..( Brihadaranyaka and kaThopanishad), nAtra kAchana bhidA asti नात्र काचन भिदाऽस्ति नैवात्र काचन भिदाऽस्त्यत्र भिदामिव मन्यमानः….. (Nrsimha tapaniya upanishad).

Om Tat Sat

Posted by: adbhutam | April 11, 2024

Vedanta contrasted with Buddhism – SSS

Access the article here:

https://adbhutam.wordpress.com/wp-content/uploads/2021/01/advaita-and-buddhism-sss.pdf

Posted by: adbhutam | April 11, 2024

Is Advaita same as Buddhism? A Kannada article

Posted by: adbhutam | April 9, 2024

MBTN verse vimarsha Kannada

Here is the link to access the article:

https://adbhutam.files.wordpress.com/2020/10/mbtn-verse-vimarsha-r.pdf

Older Posts »

Categories