‘Vishnu or Maheshvara – it’s the same for Sureshvara!!’
Here is an article, based on the Brihadaranyaka Bhashya Vartika, on the above topic:
regards
Posted in Advaita | Tags: Brihadaranyaka vartika, maheshvara, sureshvaracharya, Vishnu
वामनपुराणम्/द्विषष्टितमोऽध्यायः
इत्येवमुक्ते वचने सुराः कायविशुद्धये।
तप्तकृच्छ्ररहस्यं वै चक्रुः शक्रपुरोगमाः।। ६२.१८
ततो व्रते सुराश्चीर्णे विमुक्ताः पापतोऽभवन्।
विमुक्तपापा देवेशं वासुदेवमथाब्रुवन्।। ६२.१९
क्वासौ वद जगन्नाथ शंभुस्तिष्ठति केशव।
यं क्षीराद्यभिषेकेण स्नापयामो विधानतः।। ६२.२०
अथोवाच सुरान्विष्णुरेष तिष्ठति शङ्करः।
मद्देहे किं न पश्यध्वं योगश्चायं प्रतिष्ठितः।। ६२.२१
तमूचुर्नैव पश्यामस्त्वत्तो वै त्रिपुरान्तकम्।
सत्यं वद सुरेशान महेशानः क्व तिष्ठति।। ६२.२२
ततोऽव्ययात्मा स हरिः स्वहृत्पङ्कजशायिनम्।
दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम्।। ६२.२३
ततः सुराः क्रमेणैव क्षीरादिभिरनन्तरम्।
स्नापयांचक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम्।। ६२.२४
गोरोचनया त्वालिप्य चन्दनेन सुगन्धिना।
बिल्वपत्राम्बुजैर्देवं पूजयामासुरञ्जसा।। ६२.२५
प्रधूप्यागुरुणा भक्त्या निवेद्य परमैषधीः।
जप्त्वाऽष्टशतनामानं प्रणामं चक्रिरे ततः।। ६२.२६
इत्येवं चिन्तयन्तश्च देवावेतौ हरीश्वरौ।
कथं योगत्वमापन्नौ सत्त्वान्धतमसोद्भवौ।। ६२.२७
सुराणां चिन्तितं ज्ञात्वा विश्वमूर्तिरभूद्विभुः।
सर्वलक्षणसंयुक्तः सर्वायुधधरोऽव्ययः।। ६२.२८
सार्द्धं त्रिनेत्रं कमलाहिकुण्डलं जटागुडाकेशखगर्षभध्वजम्।
समाधवं हारभुजङ्गवक्षसं पीताजिनाच्छन्नकटिप्रदेशम्।। ६२.२९
चक्रासिहस्तं हलशार्ङ्गपाणिं पिनाकशूलाजगवान्वितं च।
कपर्दखट्वाङ्गकपालघण्टासशङ्खटङ्काररवं महर्षे।। ६२.३०
दृष्ट्वैव देवा हरिशङ्करं तं नमोऽस्तु ते सर्वगताव्ययेति।
प्रोक्त्वा प्रणामं कमलासनाद्याश्चक्रुर्मतिं चैकतरां नियुज्य।। ६२.३१
By: Deepak on August 1, 2022
at 2:34 am
Oh, what a wonderful episode!! Thanks a ton for sharing this. If you can, pl. provide the link to the English translation of this chapter and I shall make a post on this. विष्णोश्च हृदयं शिवः |
By: adbhutam on August 1, 2022
at 5:46 am
Here:-
https://www.getwisdom.in/index.php?mdi=D&flg=N&pmd=W&vip=puran+eng&puran=14+Vaman&sec=1&chap=62&cod=vamana&pn=326&bn1=chap&bn=page&act=next
By: Deepak on August 1, 2022
at 8:13 am
Thanks a lot for this link to the translation. It makes my task easy. Such lovely verses here.
By: adbhutam on August 2, 2022
at 6:34 am