Vishnutva Rudratva Brahmatva.. How can these be achieved?
In the Mahabharata and various Puranas there is mention of the three forms of Trimurtis and how they can be attained.
Mahabharata: https://sanskritdocuments.org/…/mahabharata-k-13-sa.html
It is said that the devotees can get the positions of Brahma, Vishnu and Indra when Rudra is pleased:
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह।
त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 13-49-65
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७४
https://sa.wikisource.org/s/muf
सूर्यस्तुतिवर्णनम्
।। ।। अरुण उवाच ।। ।।
पूजयित्वा रविं भक्त्या ब्रह्मा बह्मत्वमागतः ।।
विष्णुत्वं चापि देवेशो विष्षुराप तदर्चनात् ।। १ ।।
शंकरोऽपि जगन्नाथः पूजयित्वा दिवाकरम् ।।
महादेवत्वमगमत्तत्प्रसादात्खगाधिप ।। २ ।।
Brahma Vishnu Rudra worshiped Surya and attained their respective positions – Bhavishya Purana.
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १८
https://sa.wikisource.org/s/hsu
श्रीनारायण उवाच
मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः ॥ २५ ॥
कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः ।
दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने ॥ २६ ॥
विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् ।
विष्णुनैतद्व्रतं पूर्वं कृतं स्वपदलब्धये ॥ २७ ॥
शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्ध्रुवम् ।
व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्नतः ॥ २८ ॥
Sri Narayana said: Vishnu and Brahma obtained their positions by worshiping Devi with unique flowers – Devi Bhagavata Purana.
न शिवोपासना नित्या न विष्णूपासना तथा ।
नित्योपास्तिः परा देव्या नित्या श्रुत्यैव चोदिता ॥ ६६ ॥
किं मया बहु वक्तव्यं स्थाने संशयवर्जिते ।
सेवनीयं पदाम्भोजं भगवत्या निरन्तरम् ॥ ६७ ॥
नातः परतरं किञ्चिदधिकं जगतीतले ।
सेवनीया परा देवी निर्गुणा सगुणाथवा ॥ ६८ ॥
Narayana said: Neither Shiva worship nor Vishnu worship is permanent; Devi worship is the supreme. Devi Bhagavata Purana.
ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०६
https://sa.wikisource.org/s/129l
श्रीमहेश्वर उवाच
ब्रह्मत्वं चैव रुद्रत्वं विष्णुत्वं च परं पदम् ।।
अतोऽनिर्वचनीयानि वाञ्छनीयानि सन्ति वा ।। २३ ।।
सर्वाण्येतानि सर्वेश कथितानि च यानि च ।।
तव भक्तिकलांशस्य कलां नार्हन्ति षोडशीम् ।। २४ ।।
Brahma Rudra Vishnu Paramapada positions – All these are insignificant compared to Vishnu Bhakti – said Shiva in the Brahma vaivarta Purana.
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६६
https://sa.wikisource.org/s/jma
अहेतुरपि सर्वात्मा जायते परमेश्वरः । । 1.66.८०
प्रधानपुरुषत्वं च तथैवेश्वरलीलया ।
समुपैति ततश्चैवं ब्रह्मत्वं छन्दतः प्रभुः । । ८१
ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये ।
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुते रविः । । ८२
Brahma said: Surya himself has manifested as the Trimurtis – Bhavishya Purana.
भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १०
https://sa.wikisource.org/s/qf9
शतरोपी च ब्रह्मत्वं विष्णुत्वं च सहस्रके ।। ५६ ।।
Growing a hundred saplings of a particular tree leads to Brahma post, and growing a thousand saplings leads to Vishnu post.
लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०१२
https://sa.wikisource.org/s/2f19
नारायणीत्वं शक्तित्वं व्रजन्ति कृष्णसेविकाः ।
विष्णुत्वं च नरत्वं च व्रजन्ति कृष्णसेवकाः ।। १ ०४।।
एवं श्रीकृष्णयोगोऽयं मातस्ते कथितो मया ।
Women who serve Krishna attain Narayani’s post and Shakti form. Men who serve Krishna attain Vishnu’s post: Lakshminarayana Samhita.
गरुडपुराणम्/आचारकाण्डः/अध्यायः १५
https://sa.wikisource.org/s/57j
इति नामसहस्त्रं ते वृषभध्वज कीर्त्तितम् ॥
देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ 15.159 ॥
पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ॥
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ 15.160 ॥
In the Garuda Purana it is said that a Brahmin who recites Vishnu sahasra nama attains Vishnu status.
स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०३
https://sa.wikisource.org/s/fdd
भगवानुवाच
शैलादे – – – – ६- तव तुष्टोस्मि साम्बिकः ।
यं त्वद्य वृणुषे कामं सर्वं तं प्रददामि ते ।।१३ ।।
ब्रह्मत्वमथ७ विष्णुत्वमिन्द्रत्वमथवान्यताम्८ ।
आदित्यो भव रुद्रो वा ब्रूहि किं करवाणि ते ।।१४।।
Skanda Purana:
Pleased with Nandi’s devotion, Shiva offers him boons: Ask whether you want Brahmatva, Vishnutva, Indratva, or something else – Aditya or Rudra.
Nandi replied: I don’t want Brahmatva Vishnutva Indratva, I want to be near you as one of your servants.
न मे देवाधिपत्येन ब्रह्मत्वेनापि वा पुनः ।।४६।।
न विष्णुत्वेन देवेश न इन्द्रत्वेन भूतप ।
इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् ।।४७। ।
नित्यं२७ त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् ।
द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः ।।४८।।
Thus, in the Mahabharata and different Puranas, the status of the Trimurti-s has been mentioned.
Om
Leave a Reply