‘Mithya’ means ‘unreal’ alone
नमांसि
For a voice note on this post, please see here: https://lists.advaita-vedanta.org/…/advaita-l/2…/050558.html
उत्तरादिमठश्रीचरणैः बृहद्ब्रह्मसंहिता (पाञ्चरात्रम्) ग्रन्थे मिथ्याशब्दस्य अस्मत्प्रसिद्धार्थो न, परन्तु अनित्यत्वार्थ एव इत्येतदभिप्रायबोधकश्लोकः प्रदर्शितः | अत्र स्कान्दे पुराणे तद्बाधकश्लोकाः सन्ति यत्र अध्यासार्थः तथा उदाहरणञ्च विद्यते | तथा रुद्रहृदयोपनिषद्यपि (108 मध्ये)
स्पष्टमेतदर्थकमन्त्रः दृश्यते |
https://sa.wikisource.org/s/h4d
।। ब्रह्मोवाच ।। ।।
नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमोनमः ।।
अहं त्वं त्वमहं सर्वं जगदेतच्चराचरम् ।। १५ ।।
महदादि जगत्सर्वं मायाविलसितं तव ।।
अध्यस्तं त्वयि विश्वात्मंस्त्वयैव परिणामितम् ।। १६ ।।
यदेतदखिलाभासं तद्वदज्ञानसंभवम् ।।
ज्ञाते त्वयि विलीयेत रज्जुसर्पादिबोधवत् ।। १७ ।।
अनिर्वक्तव्यमेवेदं सत्त्वात्सत्त्वविवेकतः ।।
अद्वितीय जगद्भास स्वप्रकाश नमोऽस्तु ते ।। १८ ।।
विषयानंदमखिलं सहजानंदरूपिणः ।
अंशं तवोपजीवंति येन जीवंति जंतवः ।। १९ ।।
निष्प्रपंच निराकार निर्विकार निराश्रय ।।
स्थूलसूक्ष्माणुमहिमन्स्थौल्यसूक्ष्मविवर्जित ।। 2.2.27.२० ।।
॥रुद्रहृदयोपनिषत् ॥ ८८
॥ यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ।तस्मादत्रान्नरूपेण जायते जगदावलिः ॥ ३३
॥ सत्यवद्भाति तत्सर्वं रज्जुसर्पवदस्थितम् । तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥ ३४
॥ ज्ञानेनैव हि संसारविनाशो नैव कर्मणा । श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि ॥ ३५
Leave a Reply