Posted by: adbhutam | November 5, 2014

प्रत्यक्षस्य बाधः

श्रीगुरुभ्यो नमः

प्रत्यक्षस्य श्रुत्या, स्मृत्या तथा सूत्रेण बाधः

अद्वैतिनः प्रत्यक्षप्रमाणस्य व्याप्तिं व्यावहारिकदशायां नैव निराकुर्वन्ति । यतो हि लौकिकशास्त्रीयव्यवहारस्य प्रत्यक्षप्रमाणं विना असम्भवं अभ्युपगच्छन्ति । कर्मयोगभक्तिध्यानश्रवणमनननिदिध्यासनगुरुशुश्रूषादि- मोक्षमुद्दिश्य क्रियमाणं कर्म प्रत्यक्षमवश्यमपेक्षते । यत्र दशायां सर्वव्यवहारस्य बाधः श्रुतिप्रामाण्यादङ्गीकुर्वन्ति, तस्यामेव अवस्थायां प्रत्यक्षादिसर्वप्रमाणबाधम् इच्छन्ति अद्वैतिनः । केयमवस्था कथं तस्यावगतिः इति पृष्टे सति इदमुच्यते प्रत्यक्षस्य श्रुत्या, स्मृत्या तथा सूत्रेण बाधः यथा सम्भवति तथा वक्तव्यम् इति । तदेवात्र प्रदर्श्यते ।

श्रुत्या बाधः – बृहदारण्यकभाष्ये तावत् कांश्चन श्रुतीनामुल्लेखः क्रियते –

बृहदारण्यकोपनिषद्भाष्यम् । प्रथमोऽध्यायः । चतुर्थं ब्राह्मणम् । मन्त्रः १० – भाष्यम्

// सर्वं हि नानात्वं ब्रह्मणि कल्पितमेव ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४-४-२०) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४-४-१९) ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. ४-५-१५) ‘एकमेवाद्वितीयम्’ (छा. उ. ६-२-१) इत्यादिवाक्यशतेभ्यः, सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थः सन्…//

तत्र इयं श्रुतिमादाय प्रत्यक्षस्य श्रुत्या बाधः प्रतिपाद्यते – ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. ४-५-१५) अस्याः श्रुतेर्मन्त्रवर्णः एवं भवति –

// यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्मागृह्यो न गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥ //

अत्र पूर्वभागे प्रत्यक्षमनूद्यते श्रुत्या यत्र द्वैताङ्गीकारावस्थायां अन्यस्य अन्यदर्शनघ्राणादिज्ञानेन्द्रियव्यापरः तथा वदनादिकर्मेन्द्रियव्यापारः मनोबुद्धिव्यापारः चोपलक्षणत्वेन अनूद्यते । अस्मिन्नुदाहरणे सर्वोऽपि प्रत्यक्षसाध्यव्यवहारो गृहीतो वर्तते । ततः परं ’यत्र त्वस्य सर्वमात्मैवाभूत्’ इत्यंशेन तुशब्दप्रयोगेण पूर्वोदाहृतप्रत्यक्षव्यवहारं पूर्वपक्षं व्यावृत्य सर्वात्मदर्शनावस्थायां सर्वस्यापि प्रत्यक्षसाध्यव्यवहारस्य असम्भवं ब्रुवन् श्रुतिः आत्मनोऽद्वैतादिस्वभावं बोधयति । एतेन उदाहरणत्वेन दर्शितैकेन श्रुतिवाक्येन प्रत्यक्षस्य श्रुतिकृतबाधः प्रदर्शितः ।

स्मृत्या बाधः

श्रीमद्भगवद्गीतायां श्लोकमिमं स्मृतिकृतप्रत्यक्षबाधाय उदाह्रियते –

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४.२४ ॥

भाष्यम्

// ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । ‘ब्रह्म अर्पणम्’ इति असमस्ते पदे । यत् अर्पणबुद्ध्या गृह्यते लोके तत् अस्य ब्रह्मविदः ब्रह्मैव इत्यर्थः । ब्रह्म हविः तथा यत् हविर्बुद्ध्या गृह्यमाणं तत् ब्रह्मैव अस्य । तथा ‘ब्रह्माग्नौ’ इति समस्तं पदम् । अग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणा कर्त्रा, ब्रह्मैव कर्तेत्यर्थः । यत् तेन हुतं हवनक्रिया तत् ब्रह्मैव । यत् तेन गन्तव्यं फलं तदपि ब्रह्मैव ब्रह्मकर्मसमाधिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः ब्रह्मकर्मसमाधिः तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ॥ //

अत्रापि पूर्वोदाहृतश्रुतिवाक्ये यथा तथैव प्रत्यक्षसाध्यहविरर्पणादिव्यवहारोऽनूद्यते । सर्वोऽपि तद्व्यवहारो ब्रह्म साक्षात्कृतवतः पुरुषस्य ब्रह्मातिरेकाभावो गृह्यत इत्येतदुपदिश्यते भगवता । अन्यदपि वाक्यजातमस्ति गीतायामेव – तथा हि ‘कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४-१८), ’ विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५.१८ ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २.६९ ॥ इत्येवंजातीयकं स्मृतिनिर्वर्तितप्रत्यक्षबाधविषये योजयितव्यम् ।

सूत्रेण बाधः

श्रीबादरायणकृतब्रह्मसूत्रेषु द्वितीयाध्यायगतप्रथमपादे ४५. आरम्भणाधिकरणम् तावत् प्रत्यक्षेण गृह्यमाणजगदाख्यकार्यस्य ब्रह्माख्यकारणव्यतिरेकेणाभावशब्दितमिथ्यात्वप्रतिपादनाय विशेषतः प्रवृत्तम् । इदमेवानन्यत्वं कार्यस्य कारणात् ।

तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ २.१.१४ ॥ भाष्यम्

भावे चोपलब्धेः ॥ १५ ॥ भाष्यम्

सत्त्वाच्चावरस्य ॥ १६ ॥ भाष्यम्

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥ भाष्यम्

युक्तेः शब्दान्तराच्च ॥ १८ ॥ भाष्यम्

पटवच्च ॥ १९ ॥ भाष्यम्

यथा च प्राणादि ॥ २० ॥ भाष्यम्

एवं च प्रस्थानत्रयगतप्रमाणेन प्रत्यक्षस्य बाधो दृष्टः । अस्मिन् सन्दर्भे बाधशब्दस्यार्थः सम्यग्गृहीतव्यः । बाधो नाम न बाधप्रतियोगिनोऽदृश्यत्वम् अपि तु तन्मिथ्यात्वनिश्चय एव । मरुमरीचिकां दृष्ट्वा तत्र उदकबुद्धिर्यस्य जायते तस्यैव तत्समीपं गत्वा नास्त्यत्र जलम् इति सम्यग्ज्ञानं प्राप्य पुनः यत्र यत्र मरुमरीचिकादर्शनं भवति तत्र तत्र उदकाभासदर्शनसमकाले एव तोयसत्वं न कलयति । तथैव प्रत्यक्षप्रमाणजनितविषयप्रमितिवेलायामपि ‘नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्। पश्यन् श्रृणवन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन् श्वसन्।।५.८।। प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि।

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्’ (५.९), ’गुणा गुणेषु वर्तन्ते’ (३.२८) इति न तत्र सत्यत्वबुद्धिं भजति । भगवद्गीतायामेव त्रयोदशाध्याये ’इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥ इत्युपक्रम्य क्षेत्रविवरणावसरे महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥ इति कृत्स्नस्य प्रमातृ-प्रमाण-प्रमेय-प्रमितिजातस्य क्षेत्रकुक्षिपतितत्वं दर्शयन् तस्य दृश्यत्वमपि, वेद्यत्वमपि, ज्ञापयति भगवान् । एवं च यथा प्रथमस्तरे इन्द्रियाणि प्रति शब्दादिविषयाः विषयत्वम्, वेद्यत्वं, दृश्यत्वं भजन्ते, तथैव तदुत्तरस्तरे इन्द्रियाणामपि तद्विषयैः तज्जनितप्रमितिभिः सह वेद्यत्वम्, विषयत्वम्, दृश्यत्वं च बोधयति भगवान् । दृश्यस्य वेद्यस्य मिथ्यात्वमपि ज्ञापयति अध्यायान्ते – क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्।।13.35।।

तत्र भाष्यम् –

// — -क्षेत्रक्षेत्रज्ञयोः यथाव्याख्यातयोः एवं यथाप्रदर्शितप्रकारेण अन्तरम् इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा शास्त्राचार्यप्रसादोपदेशजनितम् आत्मप्रत्ययिकं ज्ञानं चक्षुः, तेन ज्ञानचक्षुषा, भूतप्रकृतिमोक्षं च, भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या, तस्याः भूतप्रकृतेः मोक्षणम् अभावगमनं च ये विदुः विजानन्ति, यान्ति गच्छन्ति ते परं परमात्मतत्त्वं ब्रह्म, न पुनः देहं आददते इत्यर्थः।।//

।।13.35।।एवंप्राप्तक्षेत्रक्षेत्रज्ञविवेकः प्रत्यक्षप्रमाणग्राहिप्रपञ्चस्य इन्द्रियैः सह वेद्यतया, दृश्यतया पश्यन् तस्य मिथ्यात्वमप्यगत्य आ देहपातं कालं नयति । एतादृशपरमार्थज्ञानसद्भावेऽपि व्यावहारिकप्रत्यक्षजनितप्रमां तदुचितव्यवहारेण उपपादयन् जीवत्ययम् । द्रष्टा, क्षेत्रज्ञः, क्षेत्रवेत्ता, नैव बाध्यते, अदृश्यत्वात् [अदृष्टो द्रष्टा..इति श्रुते.: ब्.उप्.३.७.२३], यथा आत्मा, इति अनुमानेन द्रष्टुरबाध्यत्वमपि सिद्ध्यति ।

इति प्रत्यक्षस्य यद्यपि उपजीव्यत्वं श्रुतिस्मृतिसूत्राणि प्रति तथापि तैरेव तस्य बाधो बहुधा उपदिश्यते इति सर्वमनवद्यम् ।

This article can be downloaded from:

http://www.mediafire.com/download/2cxwgh1d2m3agru/pratyakshasya+baadhah.docx

The Sanskrit-English version is available here:

http://www.mediafire.com/download/qcbwd8q040bwqqm/Pratyaksha+English-Sanskrit.docx

श्रीसद्गुरुचरणारविन्दार्पणमस्तु

 


Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

Categories

%d bloggers like this: