Posted by: adbhutam | September 3, 2011

जिज्ञासाधिकरणे वर्णकचतुष्टयम्

श्रीग्रुरुभ्यो नमः

जिज्ञासाधिकरणे वर्णकचतुष्टयम्

शंकरं शंकराचार्यं केशवं बादरायणम् ।

सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥

नत्वा गुरुवरान् भक्त्या स्मृत्वाशेषांश्च तद्गुणान्।

नित्यं तत्कृपां याचेऽन्तःकरणशुद्धये ॥

वेदान्तसूत्रतद्भाष्यतद्व्याख्याश्च मुमुक्षून् सम्यग्विचारसरण्यां नीत्वा तत्फलभूतां अपरोक्षावगतिं च प्रापयन्तीत्यत्र नास्ति संशयलेशोऽपि । आद्याधिकरणगतैकसूत्रं ’अथातो ब्रह्मजिज्ञासा’ इति यत्तावत्तद्भाष्यद्वारा अनुबन्धचतुष्टयप्रकाशकत्वेन तत्सम्बन्धिविचारबाहुल्येन द्योतते । ’भाष्यरत्नप्रभा’नामकतद्भाष्यटीकायां  यद्विचारः प्रवृत्तः भाष्यगतवर्णकचतुष्टयाभिव्यञ्जकः तस्याविष्करणरूपप्रबन्धोऽयमिदानीमारभ्यते ।

वर्णकशब्दस्य कोऽर्थः? इति प्रश्ने जाते इदं वक्तुं शक्यते – अस्मिन् प्रकरणे एकस्यैव सूत्रस्य व्याख्यानानेकत्वसम्भवे एकैकं व्याख्यानं वर्णकशब्देन निर्दिश्यते यथा ’प्रथमवर्णकं, द्वितीयवर्णकम्’ इति । अस्मिन्विषये रत्नप्रभाकारा आहुः वर्णकचतुष्टयस्य विस्तरावसाने – एवं प्रथमसूत्रस्य चत्वारोऽर्था व्याख्यानचतुष्टयेन दर्शिताः। सूत्रस्य चानेकार्थत्वं भूषणम् । इति ।  एवञ्च विविधदृष्ट्या सूत्रार्थालोचनं श्रुतितदनुकूलतर्कबलेन शास्त्रार्थविशदीकरणे बहूपयोगि इत्यत्र नास्ति सन्देहः । उक्तरीत्या अत्र वर्णकचतुष्टयं वर्तते यस्य संक्षेपतः प्रदर्शनमत्र क्रियते, विस्तरस्य तु भाष्यरत्नप्रभायामेव मूलतो द्र्ष्टुं पार्यत इति ।

वर्णकचतुष्टयस्य को वा अवसरः?

’अथातो ब्रह्मजिज्ञासा’ इति प्रथमसूत्रत्वादत्र वेदान्तमीमांसाशास्त्रस्यारम्भणमेव कथं उपपद्यते इति विचार्यते । यतोऽनुबन्धचतुष्टयत्वेन अधिकारी, विषयः, सम्बन्धः तथा प्रयोजनम् इति चत्वारि अंशाः प्रसिद्धाः । तेषु हि सत्सु शास्त्रारम्भमर्थवद्भवति नान्यथा इति शास्त्रमर्यादासत्वात् तेषां सिद्धिं स्थूणानिखननन्यायेन स्थापयितुं भाष्यकारा एव प्रथमं विषयप्रयोजनद्वयसिद्धये अध्यासस्वरूपवर्णनेन संसारलक्षणं प्रपञ्च्य अस्ति अत्र शास्त्रस्य विषयः ब्रह्मात्मैक्यज्ञानम् तत्फलकमोक्षश्च शास्त्रस्य प्रयोजनम् इति प्रतिज्ञापूर्वकं आहुः – एवमयमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्ष: । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः । इति ।

प्रथमवर्णकम्

अत्र भाष्ये अध्यासवर्णनं संसारलक्षणप्रकाशनार्थम् । प्रकाशनफलं च कर्तृत्वाद्यनर्थहेतुः अध्यास एवेत्यवगतिसिद्धिः । सर्वत्राध्यासोऽधिष्ठानयाथात्म्यज्ञानादेव निवर्त्यते यतो तदज्ञानमेव तद्धेतुः । एवं च अयमप्यध्यासः स्वस्वरूपापरोक्षज्ञानादेव निवर्त्यत इति सिद्धम्, तदज्ञानमेव तत्कारणमिति । तादृशज्ञानं तु सर्वसंसारवर्जितशुद्धब्रह्मैव आत्मा नान्यत् इति प्रकारकम् । इदमेव वेदान्तवाक्यमीमांसाफलम् । एवं च ब्रह्मात्मैक्यज्ञानमस्य वेदान्तवाक्यविचारात्मकशास्त्रस्य विषयः । ज्ञानादध्याससमूलनाश एव अस्य शास्त्रविचारस्य परमं प्रयोजनम् ।  एवं विषयप्रयोजने अध्यासवर्णनेन साधिते भवतः । तयोस्सिद्धे सति विषयप्रयोजनसत्त्वात् शास्त्रमारम्भणीयमिति दर्शितं भवति । इदमेव प्रथमवर्णकम्

द्वितीयवर्णकं तत्प्रसक्तिश्च

विचारस्य यद्यपि साक्षाद्विषयः वेदान्ता एव तथापि तेषां गतार्थत्वं पूर्वशास्त्रेण सिद्धं इति मत्वा कृत्स्नस्यैव वेदस्य कर्मविधिपरत्वमेव, तस्याश्च विधेः ’अथातो धर्मजिज्ञासा’ इति पूर्वमीमांसाशास्त्रेणैव विचारितत्वात् तत्र वेदान्तानामपि आर्थिकविधिपरत्वनिर्णयात् वेदान्तवाक्यार्थनिर्णयाय पृथक्शास्त्रारम्भणमनवश्यकमिति प्राप्ते इदमुच्यते  भाष्यकारैः –  वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्य इदमादिमं सूत्रम् – ’अथातो ब्रह्मजिज्ञासा’ इति । अत्रेदं न्यायप्रदर्शनम् – यदि विधिपरत्वमेव वेदार्थस्य तर्हि सर्वज्ञा भगवन्तः बादरायणाः ब्रह्मजिज्ञासाकर्तव्यतां न ब्रूयुः, पूर्वशास्त्रेणैव कृत्स्नस्य वेदार्थस्य विधिपरत्वनिर्णयात् ब्रह्मणि मानाभावात् । तथा च ब्रह्मणो जिज्ञास्यत्वोक्त्या सूत्रशब्दादेव सिद्ध्यति यत्केनापि शास्त्रान्तरेणानवगतब्रह्मपरवेदान्तविचारः आरम्भणीय एवेति ।  सूत्रकृदभिप्रायः भाष्यगत-व्याचिख्यासितस्य-इतिशब्दादवगम्यते । इदमेव द्वितीयवर्णकम् । पूर्वोक्तरीया ’अथातो ब्रह्मजिज्ञासा’ इत्येतत्सूत्रस्यैव दृष्टिभेदेन व्याख्यानत्वं प्रथमवर्णकाद्भेदश्चात्र स्पष्टमवगन्तुं पार्यते ।

अत्र वर्णकद्वयोपसंहारकत्वेन अग्रिमवर्णकस्य उपक्रमत्वेन च ’भाष्यरत्नप्रभा’व्याख्यानस्य वाक्यं दृश्यते – एवं वर्णकद्वयेन वेदान्तविचारस्य (१)विषयप्रयोजनवत्त्वम् (२) अगतार्थत्वं च इति हेतुद्वयं सूत्रस्यार्थिकार्थं व्याख्याय अक्षरव्याख्यामारभमाणः पुनरप्यधिकारिभावाभावाभ्यां शास्त्रारम्भसन्देहे सति अथशब्दस्यानन्तार्यार्थकत्वोक्त्या अधिकारिणं साधयति – तत्राथशब्द इति ।

तृतीयवर्णकम्

एतेन तृतीयवर्णकस्य विषयस्तु शास्त्रविचारस्य अधिकारिसिद्धिः इति स्पष्टम् । शास्त्रं हि सूक्ताधिकारिणमपेक्षते । किमप्यधिकारिणमनपेक्ष्य शास्त्रं न प्रणीयते केनापि । प्रकृते ’ब्रह्मजिज्ञासा कर्तव्या’ इत्येतत्पूर्वविचारेण स्थापितम् । इदानीं केन तज्जिज्ञासोपलक्षितविचारः कर्तव्य इत्यस्य प्रश्नस्य उत्तरत्वेन सूत्रगताथशब्दविचार आरभ्यते ।  भाष्येऽथशब्दस्य सम्भाव्यबह्वर्थविचारं प्रवर्त्य अन्ते आनन्तर्यार्थ एव सङ्गतत्वेन स्वीक्रियते । तथा हि भाष्यवाक्यम् – तस्मात्किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते – नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं च । तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्मजिज्ञासितुं ज्ञातुं च न विपर्यये । तस्मादथशब्देन यथोक्तसाधनसंपत्त्यानन्तर्यमुपदिश्यते । इति ।

एवमथशब्दस्य अर्थनिर्णयेन साधनचतुष्टयस्य अविनाभावत्वमन्वयव्यतिरेकाभ्यां स्थापितं भवति ।

सूत्रगतातःशब्दोऽपि अथशब्दसूचितसाधनचतुष्टयान्यतमयोः वैराग्यमुमुक्षे साधयति । तच्च भाष्यादेववगम्यते – अतःशब्दो हेत्वर्थः । यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति – ’तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छान्दो.८.१.६) इत्यादिः । तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयति – ’ब्रह्मविदाप्नोति परम्’ इत्यादिः (तैत्ति.२.१) तस्माद्यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या । इति ।

उदाहृतश्रुतिवाक्यद्वयस्य स्वारस्यं रत्नप्रभाकाराः व्याकुर्वन्ति – ’यदल्पं तदनित्यम्’ ’यत्कृतकं तदनित्यम्’ इति न्याववती ’तद्यथेह’ इत्यादिश्रुतिः कर्मफलाक्षयश्रुतेर्बाधिका (’अक्षय्यं चातुर्मास्ययाजिनां फलम्’ इत्यर्थबोधकश्रुतिवाक्यमत्र लक्षितम्) । तस्मात् ’अतोऽन्यदार्तम्’ इति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकात् वैराग्यलाभ इति भावः । मुमुक्षां सम्भावयति – तथेति । यथा वेदः कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानलमपारं स्वयंज्योतिरानन्दं दर्शयतीत्यर्थः । इति ।

उक्तरीत्या वैराग्योत्पादकश्रुतिः ’इदं तु मे नैव स्यात्’ इत्याकारिकवृत्तिं सम्पादयति । मुमुक्षुत्वबोधकश्रुतिः ’इदमेव मम रोचते, तदेवाहं कथमपि प्रापयामि’ इत्याकारिकदार्ढ्यं सम्पादयति । उदाहृतव्याख्यानात् विवेकपूर्वकवैराग्यमेवात्र दर्शितमिति ज्ञायते । तथापि किमिति भाष्ये विवेकस्य वा शमादेर्वा उत्पादकश्रुतिर्नोदाहृता इति चेदत्र विवेकचूडामणिश्लोकावलोकनं प्रयोजनकरं भवति –

वैराग्यं च मुमुक्षुत्वं तीव्रं  यस्य तु विद्यते ।

तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ 29 ॥

एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः |

मरौ सलीलवत्तत्र शमादेर्भानमात्रता ||30|| इति ।

एवञ्च वैराग्यमुमुक्षुत्वकथनेन इतरेषाम् उक्तार्थत्वं सम्पादितं भवतीति मन्तव्यम् ।

इति तृतीयवर्णकम् अधिकारिसिद्धिं स्थाप्य शास्त्रारम्भणेऽन्तरायराहित्यं स्फुटयति इत्यत्र रत्नप्रभावाक्यम् – अथातःशब्दाभ्यामधिकारिणः साधितत्वात्तेन (अधिकारिणा/मुमुक्षुणा) ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः।इति।

चतुर्थवर्णकं तत्प्रसक्तिश्च

चतुर्थवर्णकप्रसक्तिं तत्रैव व्याख्याने द्योतितम् – प्रथमवर्णके बन्धस्य अध्यासत्वोक्त्या विषयादिप्रसिद्धावपि ब्रह्मप्रसिद्ध्यप्रसिद्ध्योः विषयादिसम्भवासम्भवाभ्यां शास्त्रारम्भसन्देहे पूर्वपक्षमाह – तत्पुनरिति । पुनःशब्दो वर्णकान्तरद्योतनार्थः । इति । विचार्यब्रह्म यदि विचारात्प्रागेव ज्ञातं तर्हि ’ब्रह्म अज्ञातं इति न, तेन विचारेण ब्रह्मविषयकाज्ञाननिवृत्तिरूपफलमपि न’ इति ब्रह्म न विचारयितव्यम् । तथा यदि अज्ञातं ब्रह्म, तर्हि न कोऽपि तं जिज्ञासितुं विचारयितुं च शक्नोति, अज्ञातविषयस्य ज्ञातुं उद्देश्यत्वायोगात् । यद्बुद्धावेव न आरूढं तं (ब्रह्म) विचारात्मकशास्त्रं वा वेदान्ता (श्रुतिवाक्यानि) वा नैव प्रतिपादयितुं शक्नुवन्ति । तेन अनुबन्धचतुष्टयान्यतमसम्बन्धाख्यः प्रतिपाद्यप्रतिपादकरूपः (विषयः प्रतिपाद्यः, शास्त्रं प्रतिपादकम् इतिरूपः) नैव सिद्ध्यति इति शास्त्रस्य आत्यन्तिकं फलं मोक्षोऽपि न सिद्ध्यति इति अनारम्भणीयं शास्त्रम् इति प्राप्तम् । तत्र ब्रह्म प्रसिद्धं वा अप्रसिद्धं वा इति विचारः क्रियते भाष्ये । सर्वस्य चेतनात्मकस्य स्वविषयकास्तित्वप्रसिद्धिं अनुभवप्रमाणीकृत्य ब्रह्मणः सर्वस्यात्मत्वाच्च तेन आपाततोऽपि ब्रह्मास्तित्वज्ञानं साधयित्वा, तथापि स्वात्मविषयकविशेषप्रतिपत्तिं प्रति विप्रतिपत्तिदर्शनेन अप्रसिद्धिमपि साधितं भाष्ये । तेन ब्रह्म विषयत्वं भजति शास्त्रस्य विचारे, तेन च उक्तफलरूपमोक्षासिद्धिरपि न सम्भवति इति परिहृत्य शास्त्रारम्भणे न व्यवधानमिति उपसंहरति चतुर्थवर्णकम् । तत्पूर्वं अन्यदपि किञ्चित्प्रश्नपूर्वकं विचार्यते – सूत्रे विचारवाचिपदं नास्ति इत्यतः विचारारम्भः करणीयः इति कथं सूत्रशब्दादवगम्यते? इति । तत्र समाधानम् – जिज्ञासाशब्दात्प्राप्तेच्छार्थकत्वेन विचारो लक्षितः तेन च तत्कर्तव्यता बोधिता सूत्रेण इति ।

वर्णकचतुष्टयं सारांशत्वेन एवं ज्ञातव्यम् –

    • ब्रह्मज्ञानस्य मोक्षाय आवश्यकत्वोक्त्या तदज्ञानकार्याध्यासः तन्मूलकसंसारश्च प्रतिपादितः भाष्ये । तेन अज्ञाननिवर्त्यब्रह्मज्ञानप्राप्त्यै विचार आरम्भणीयः इति प्रथमवर्णकसंक्षेपः ।
    • कृत्स्नस्य वेदस्यार्थः पूर्वमीमांसाशास्त्रादेव निर्णीतः इति यदि ब्रह्ममीमांसाशास्त्रमनारम्भणीयं तर्हि नैवम्, यतः सर्वज्ञैः भगवद्भिः सूत्रकृद्भिः बादरायणमहर्षिभिः ब्रह्मजिज्ञासात्मकशास्त्रं न प्रणीतं स्याद्यदि धर्मजिज्ञासाशास्त्रादेव कृत्स्नस्य वेदस्यार्थः विधिपरत्वेन निर्णीतः स्यात् ।  तादृशार्थापत्त्या द्वितीयवर्णकं प्रवर्तते ।
    • अनुबन्धचतुष्टयान्यतमाधिकारिसिद्धावेव शास्त्रारम्भः स्यात् नान्यथा इति तत्सिद्धये सूत्रगताथातःशब्दपर्यालोचनात् साधनचतुष्टयवान् मुमुक्षुः सिद्ध्यत्येव इति श्रुतिबलान्निर्णयः तृतियवर्णकहृदयम् ।
    • यद्यपि विषयप्रयोजनसिद्धिः प्रथमवर्णकादेव कृता तथापि मुख्यविषयब्रह्मप्रसिद्ध्यप्रसिद्धिरूपकोटिद्वयविचारेण ब्रह्मण आपातप्रसिद्ध्यापि विचारः सिद्ध्यति इति स्थापनं चतुर्थवर्णकरहस्यम् ।
    • एवं चतुर्ष्वपि वर्णकेषु शास्त्रारम्भविषये आक्षेपोत्थापनं समानम् । तदाक्षेपमूलं तथा तत्परिहारप्रकारश्च प्रतिवर्णकं भिद्यते इति विशेषो द्रष्टव्यः ।

अध्यापितगुरून् भक्तिपूर्वकं प्रणम्य तेषां चरणयोरर्पयामीदं लेखनम् ।

श्रीसद्गुरुचरणारविन्दार्पणमस्तु


Responses

  1. very informative

  2. Extremely clear and useful in understanding the Sutra Bhashya with such an excellent English translation. Thank you.

    Have you conmtinued further on this, please?

  3. Thanks for your kind words. I have not written more on this topic although I have covered here and there some aspects from the sUtra bhAShyam of Shankaracharya in other articles.

    regards
    adbhutam


Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

Categories

%d bloggers like this: